pratishtha

प्रतिष्ठा

द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत।

नेष्ट्रादृतुभिरिष्यत॥ १.०१५.०९

 

यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत।

स नो देवेष्वा यमद्दीर्घमायुः प्र जीवसे॥ १०.०१४.१४

2.13

मनो जूतिर् जुषताम् आज्यस्य बृहस्पतिर् यज्ञम् इमं तनोतु ।

अरिष्टं यज्ञम्̐ सम् इमं दधातु विश्वे देवासऽ इह मादयन्ताम् ओ3ं प्र तिष्ठ ॥

26.22

द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।

नेष्ट्राद् ऋतुभिर् इष्यत ॥

रक्षोहणं वाजिनम् आ जिघर्मि मित्रम् प्रतिष्ठम् {W प्रथिष्ठम्} उप यामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥- तै.सं. 1.2.14

शताक्षरा भवन्ति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति - 1.5.2

अग्निर् मूर्धा दिवः ककुद् इत्य् आह मूर्धानम् एवैनम्̇ समानानां करोत्य् अथो देवलोकाद् एव मनुष्यलोके प्रति तिष्ठति । - 1.5.7

षड्भिर् उप तिष्ठते षड् वै ऋतव ऋतुष्व् एव प्रति तिष्ठति षड्भिर् उत्तराभिर् उप तिष्ठते द्वादश सम् पद्यन्ते द्वादश मासाः संवत्सरः संवत्सर एव प्रति तिष्ठति - 1.5.7

इन्धानास् त्वा शतम् हिमा इत्य् आह शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति । -1.5.7

प्र वा एषो ऽस्माल् लोकाच् च्यवते य आहवनीयम् उपतिष्ठते गार्हपत्यम् उप तिष्ठते ऽस्मिन्न् एव लोके प्रति तिष्ठति । - 1.5.8

यो वै सप्तदशम् प्रजापतिं यज्ञम् अन्वायत्तं वेद प्रति यज्ञेन तिष्ठति न यज्ञाद् भ्रम्̇शते ।

आ श्रावयेति चतुरक्षरम् अस्तु श्रौषड् इति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कारः । एष वै सप्तदशः प्रजापतिर् यज्ञम् अन्वायत्तः । य एवं वेद प्रति यज्ञेन तिष्ठत् न यज्ञाद् भ्रम्̇शते

यो वै यज्ञस्य प्रायणम् प्रतिष्ठाम् उदयनं वेद प्रतिष्ठितेनारिष्टेन यज्ञेन सम्̇स्थां गच्छति ।

आ श्रावयास्तु श्रौषड् यज ये यजामहे वषट्कार एतद् वै यज्ञस्य प्रायणम् एषा प्रतिष्ठैतद् उदयनम् । य एवं वेद प्रतिष्ठितेनारिष्टेन यज्ञेन सम्̇स्थां गच्छति - १.६.११

अग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह ।

आयुर् एवात्मन् धत्ते प्रति यज्ञेन तिष्ठति – १.६.११

इयं वै प्रजाः पराभवन्तीर् अनु गृह्णाति प्रत्य् आभवन्तीर् गृह्णाति

य एवं वेद प्रत्य् एव तिष्ठति । -१.७.२

विष्णोः शम्योर् अहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह

यज्ञो वै विष्णुर् यज्ञ एवान्ततः प्रति तिष्ठति – १.७.४

सम् ज्योतिषाभूवम् इत्य् आह ।

अस्मिन्न् एव लोके प्रति तिष्ठति । - 1.7.6

संवत्सरस्य परस्तात् प्राजापत्यं कद्रुम् आ लभेत

प्रजापतिः सर्वा देवताः ।

देवतासु एव प्रति तिष्ठति – 2.1.4

अग्निर् एवास्य स्वेन भागधेयेनोपसृतः पाप्मानम् अपि दहत्य् ऐन्द्रेणेन्द्रियम् आत्मन् धत्ते

मुच्यते पाप्मनः ।

भवत्य् एव

द्यावापृथिव्यां धेनुम् आ लभेत ज्योगपरुद्धः ।

अनयोर् हि वा एषो ऽप्रतिष्ठितः ।

अथैष ज्योग् अपरुद्धो द्यावापृथिवी एव स्वेन भागधेयेनोप धावति

ते एवैनम् प्रतिष्ठां गमयतः

प्रत्य् एव तिष्ठति – 2.1.4

क्षैत्रपत्यं चरुं निर् वपेज् जनताम् आगत्य ।

इयं वै क्षेत्रस्य पतिः ।

अस्याम् एव प्रति तिष्ठति । - 2.2.1

आदित्यं चरुं निर् वपेत् संग्रामम् उपप्रयास्यन् ।

इयं वा अदितिः ।

अस्याम् एव पूर्वे प्रति तिष्ठन्ति – 2.2.6

यद् इन्द्रायार्कवते भूत एवान्नाद्ये प्रति तिष्ठति भवत्य् एव । - 2.2.7

पुरोडाशम् अव दधात्य् आत्मन्वन्तम् एवैनं करोत्य् अथो आयतनवन्तम् एव

चतुर्धा व्यूहति दिक्ष्व् एव प्रति तिष्ठति – 2.3.13

प्रजापतिः प्रजा असृजत

ता अस्मात् सृष्टाः पराचीर् आयन्

ता यत्रावसन् ततो गर्मुद् उद् अतिष्ठत्

ता बृहस्पतिश् चान्ववैताम् ।

सो ऽब्रवीद् बृहस्पतिः ।

अनया त्वा प्र तिष्ठान्य् अथ त्वा प्रजा उपावर्त्स्यन्तीति

तम् प्रातिष्ठत्

ततो वै प्रजापतिम् प्रजा उपावर्तन्त – 2.4.4

सो ऽब्रवीत् पूषा ।

अनया मा प्र तिष्ठाथ त्वा पशव उपावर्त्स्यन्तीति

माम् प्र तिष्ठेति सोमो ऽब्रवीन् मम वै

अकृष्टपच्यम् इति ।

उभौ वाम् प्र तिष्ठानीत्य् अब्रवीत्

तौ प्रातिष्ठत्

ततो वै प्रजापतिम् पशव उपावर्तन्त – 2.4.4

यज्ञो वै विष्णुः पशवः शिपिर् यज्ञ एव पशुषु प्रति तिष्ठति – 2.5.5

आसीनो यजति ।

अस्मिन्न् एव लोके प्रति तिष्ठति – 2.5.11

समिधो यजत्य् अस्मिन्न् एव लोके प्रति तिष्ठति

तनूनपातं यजति

यज्ञ एवान्तरिक्षे प्रति तिष्ठति ।

इडो यजति पशुष्व् एव प्रति तिष्ठति

बर्हिर् यजति य एव देवयानाः पन्थानस् तेष्व् एव प्रति तिष्ठति

स्वाहाकारं यजति सुवर्ग एव लोके प्रति तिष्ठति ।

एतावन्तो वै देवलोकास् तेष्व् एव यथापूर्वम् प्रति तिष्ठति – 2.6.1

द्व्यक्षरो वषट्कारो द्विपाद् यजमानः पशुष्व् एवोपरिष्टात् प्रति तिष्ठति – 2.6.2

ध्रुवाऽसीतीमाम् अभि मृशति ।

इयं वै ध्रुवा ।

अस्याम् एव प्रति तिष्ठति – 2.6.5

यो वै तानूनप्त्रस्य प्रतिष्ठां वेद प्रत्य् एव तिष्ठति

ब्रह्मवादिनो वदन्ति

न प्राश्नन्ति न जुह्वत्य् अथ क्व तानूनप्त्रम् प्रति तिष्ठतीति प्रजापतौ मनसीति ब्रूयात्

त्रिर् अव जिघ्रेत्

प्रजापतौ त्वा मनसि जुहोमि ।

इत्य् एषा वै तानूनप्त्रस्य प्रतिष्ठा य एवं वेद प्रत्य् एव तिष्ठति

यो वा अध्वर्योः प्रतिष्ठां वेद प्रत्य् एव तिष्ठति

यतो मन्येतानभिक्रम्य होष्यामीति तत् तिष्ठन्न् आ श्रावयेत्

एषा वा अध्वर्योः प्रतिष्ठा य एवं वेद प्रत्य् एव तिष्ठति – 3.1.2

ब्रह्मौदनं चतुःशरावम् पक्त्वा तस्मै होतव्या - - - चतुःशरावो भवति दिक्ष्व् एव प्रति तिष्ठति – 3.4.8

प्रजापतिर् वा अजुहोत् सा यत्राऽऽहुतिः प्रत्यतिष्ठत् ततो विकङ्कत उद् अतिष्ठत् – 3.5.7

यत्र वा आप उपगच्छन्ति तद् ओषधयः प्रति तिष्ठन्ति ।

ओषधीः प्रतितिष्ठन्तीः पशवो ऽनु प्रति तिष्ठन्ति – 5.1.3

उत् तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् इत्य् आह प्रतिष्ठित्यै । - 5.1.7

एकविम्̇शस्यैव प्रतिष्ठां गार्हपत्यम् अनु प्रति तिष्ठति

प्रत्य् अग्निं चिक्यानस् तिष्ठति य एवं वेद – 5.2.3

त्रिचितीकं चिन्वीत द्वितीयं चिन्वानस्

त्रय इमे लोकाः ।

एष्व् एव लोकेषु प्रति तिष्ठन्ति । -5.2.3

कृष्टे वपति

कृष्टे ह्य् ओषधयः प्रतितिष्ठन्ति – 5.2.5

काण्डात्काण्डात् प्ररोहन्तीत्य् आह

काण्डेनकाण्डेन ह्य् एषा प्रतितिष्ठति । - 5.2.8

यद् द्वे प्रतिष्ठा तेन

विराजोर् एवाभिपूर्वम् अन्नाद्ये प्रति तिष्ठति – 5.3.3

ओजस् त्रिणव इति पश्चात् ।

इमे वै लोकास् त्रिणवः ।

एष्व् एव लोकेषु प्रति तिष्ठति – 5.3.3

ऋभूणाम् भागो ऽसीति पश्चात्

प्रतिष्ठित्यै

यस्य प्रतिष्ठावतीः पश्चात् प्रत्य् एव तिष्ठति – 5.3.4

ताः प्रजाः प्रजाता न प्रत्य् अतिष्ठन्

ता वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असीत्य् एवैषु लोकेषु प्रत्य् अस्थापयत् ।

यद् आह

वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असीति प्रजा एव प्रजाता एषु लोकेषु प्रतिष्ठापयति

सात्मान्तरिक्षम्̇ रोहति

सप्राणो ऽमुष्मिम्̐ लोके प्रति तिष्ठति । - 5.3.6

संवत्सरो वा एतम् प्रतिष्ठायै नुदते यो ऽग्निं चित्वा न प्रतितिष्ठति

पञ्च पूर्वाश् चितयो भवन्त्य् अथ षष्ठीं चितिं चिनुते

षड् वा ऋतवः संवत्सरः।

ऋतुष्व् एव संवत्सरे प्रति तिष्ठति । - 5.4.2

अलजचितं चिन्वीत चतुःसीतम् प्रतिष्ठाकामश् चतस्रो दिशो दिक्ष्व् एव प्रति तिष्ठति -5.4.11

इयं वा अदितिः ।

अस्याम् एव प्रति तिष्ठत्य् अथो अस्याम् एवाधि यज्ञं तनुते – 5.5.1

यद् वा असौ रेतः सिञ्चति तद् अस्याम् प्रति तिष्ठति तत् प्र जायते ता ओषधयः ॥

वीरुधो भवन्ति- 5.5.4

यो वा इष्टकानाम् प्रतिष्ठां वेद प्रत्य् एव तिष्ठति

तया देवतयाङ्गिरस्वद् ध्रुवा सीदेत्य् आह ।

एषा वा इष्टकानाम् प्रतिष्ठा य एवं वेद प्रत्य् एव तिष्ठति ॥ 5.5.6

ऋतुस्था यज्ञायज्ञियेन पुच्छम् ऋतुष्व् एव प्रति तिष्ठति – 5.5.8

आपो वा इदम् अग्रे सलिलम् आसीत्

स प्रजापतिः पुष्करपर्णे वातो भूतो ऽलेलायत्

सः प्रतिष्ठां नाविन्दत

स एतद् अपां कुलायम् अपश्यत्

तस्मिन्न् अग्निम् अचिनुत

तद् इयम् अभवत्

ततो वै स प्रत्य् अतिष्ठत् । - 5.6.4

यो वै वसोर् धारायै प्रतिष्ठां वेद प्रत्य् एव तिष्ठति – 5.7.3

याः प्रायणीयस्य पुरोऽनुवाक्यास् ता उदयनीयस्य याज्याः करोत्य् अस्मिन्न् एव लोके प्रति तिष्ठति ॥- 6.1.5

एष्टा रायः प्रेषे भगायेत्य् आह

द्यावापृथिवीभ्याम् एव नमस्कृत्यास्मिम्̐ लोके प्रति तिष्ठन्ति

6.2.2

प्रतिष्ठिते देवयजने याजयेत् प्रतिष्ठाकामम्

एतद् वै प्रतिष्ठितं देवयजनं यत् सर्वतः समम्

प्रत्य् एव तिष्ठति

6.2.6

एष वै वनस्पतीनाम् पशव्यः पशुमान् एव भवति

प्रतिष्ठितं वृश्चेत् प्रतिष्ठाकामस्यैष वै वनस्पतीनाम् प्रतिष्ठितो यः समे भूम्यै स्वाद् योने रूढः प्रत्य् एव तिष्ठति यः प्रत्यङ्ङ् उपनतस् तं वृश्चेत् स हि मेधम् – 6.3.3

यद् अन्वीपं तिष्ठन् गृह्णीयान् निर्मार्गुका अस्मात् पशवः स्युः

प्रतीपं तिष्ठन् गृह्णाति

प्रतिरुध्यैवास्मै पशून् गृह्णाति । - 6.4.2

अर्धिनो ऽन्ये ग्रहा गृह्यन्ते ऽर्धी ध्रुवस्

तस्माद् अर्ध्य् अवाङ् प्राणो ऽन्येषाम् प्राणानाम्

उपोप्ते ऽन्ये ग्रहाः साद्यन्ते ऽनुपोप्ते ध्रुवस्

तस्माद् अस्थ्नान्याः प्रजाः प्रतितिष्ठन्ति माम्̇सेनान्याः ।

6.5.2

यज्ञस्य वा अप्रतिष्ठिताद् यज्ञः परा भवति यज्ञम् पराभवन्तं यजमानो ऽनु परा भवति यद् आज्येन पात्नीवतम्̇ सम्̇स्थापयति यज्ञस्य प्रतिष्ठित्यै यज्ञम् प्रतितिष्ठन्तं यजमानो ऽनु प्रति तिष्ठति ।

6.6.6

असाव् आदित्य एकविम्̇शः ।

एतस्मिन् वा एते श्रिता एतस्मिन् प्रतिष्ठिताः ।

य एवं वेदैतस्मिन्न् एव श्रयत एतस्मिन् प्रति तिष्ठति ॥

7.1.1

रथंतरम् पूर्वे अहन्त् साम भवति ।

इयं वै रथंतरम्

अस्याम् एव प्रति तिष्ठति

बृहद् उत्तरे ।

असौ वै बृहत् ।

अमुष्याम् एव प्रति तिष्ठति -7.1.4

चतुर्विम्̇शो भवति

चतुर्विम्̇शत्यक्षरा गायत्री

गायत्रम् ब्रह्मवर्चसम् ।

गायत्रियाम् एव ब्रह्मवर्चसे प्रति तिष्ठन्ति

चतुश्चत्वारिम्̇शो भवति

चतुष्चत्वारिम्̇शदक्षरा त्रिष्टुग्

इन्द्रियं त्रिष्टुप्

त्रिष्टुभ्य् एवेन्द्रिये प्रति तिष्ठन्ति ।

अष्टाचत्वारिम्̇शो भवति ।

अष्टाचत्वारिम्̇शदक्षरा जगती

जागताः पशवः ।

जगत्याम् एव पशुषु प्रति तिष्ठन्ति । - 7.2.6

प्राणो वै प्रथमो ऽतिरात्रो व्यानो द्वितीयो ऽपानस् तृतीयः

प्राणापानोदानेष्व् एवान्नाद्ये प्रति तिष्ठन्ति – 7.3.3

पशवो वै छन्दोमा अन्नम् महाव्रतम् ।

यद् उपरिष्टाच् छन्दोमानाम् महाव्रतं कुर्वन्ति पशुषु चैवान्नाद्ये च प्रति तिष्ठन्ति ॥ - 7.3.3

ज्योतिर् गौर् आयुर् इति त्र्यहो भवति ।

इयं वाव ज्योतिर् अन्तरिक्षम् गौर् असाव् आयुः ।

एष्व् एव लोकेषु प्रति तिष्ठन्ति । - 7.3.6

असत्त्रं वा एतद् यद् अच्छन्दोमम् ।

यच् छन्दोमा भवन्ति तेन सत्त्रम् ।

देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः ।

ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति – 7.3.6

यजमाना वै दिवाकीर्त्यम् ।

संवत्सरः परःसामानः ।

अभितो दिवाकीर्त्यम् परःसामानो भवन्ति

संवत्सर एवोभयतः प्रति तिष्ठन्ति – 7.3.10

यत् प्रतीचीनानि पृष्ठानि भवन्ति ।

इमम् एव तैर् लोकम् प्रत्यवरोहन्ति ।

अथो अस्मिन्न् एव लोके प्रति तिष्ठन्त्य् अनुन्मादाय । - 7.3.10

देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः ।

ओजो वै वीर्यं पृष्ठानि पशवश् छन्दोमाः ।

ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति – 7.4.1

 

 

समेवान्ये यज्ञास्तिष्ठन्तेऽग्निहोत्रमेव न संतिष्ठते – श २.३.१.[१३]

स यत्सायमस्तमिते द्वे आहुती जुहोति । तदेताभ्यां पूर्वाभ्याम्पद्भ्यामेतस्मिन्मृत्यौ प्रतितिष्ठत्यथ यत्प्रातरनुदिते द्वे आहुती जुहोति तदेताभ्यामपराभ्यां पद्भ्यामेतस्मिन्मृत्यौ प्रतितिष्ठित स एनमेष उद्यन्नेवादायोदेति तदेतं मृत्युमतिमुच्यते सैषाग्निहोत्रे मृत्योरतिमुक्तिरति ह वै पुनर्मृत्युं मुच्यते य एवमेतामग्निहोत्रे मृत्योरतिमुक्तिं वेद - २.३.३.[९]

स आहवनीयमेवाग्र उपतिष्ठते । अथ गार्हपत्यं गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा तद्गृहेष्वेवैतत्प्रतिष्ठायां प्रतितिष्ठति - २.४.१.[७]

वरुणप्रघास - उत्सन्नयज्ञ इव वा एष यच्चातुर्मास्यान्यथैष कॢप्तः प्रतिष्ठितो यज्ञो यत्पौर्णमासं तत्कॢप्तेनैवैतद्यज्ञेनान्ततः प्रतितिष्ठति तस्मादुदवस्यति - २.५.२.[४८]

तदुदकुम्भमुपनिदधाति तन्नापित उपतिष्ठते तत्केशश्मश्रु च वपते नखानि च निकृन्ततेऽस्ति वै पुरुषस्यामेध्यं यत्रास्यापो नोपतिष्ठन्ते केशश्मश्रौ च वा अस्य नखेषु चापो नोपतिष्ठन्ते तद्यत्केशश्मश्रु च वपते नखानि च निकृन्तते मेध्यो भूत्वा दीक्षा इति - ३.१.२.[२]

सुमित्रिया न आप ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति यत्र वा एतेन प्रचरन्त्यापश्च ह वा अस्मात्तावदोषधयश्चापक्रम्येव तिष्ठन्ति तदु ताभिर्मित्रधेयं कुरुते तथो हैनं ताः पुनः प्रविशन्त्येषो तत्र प्रायश्चित्तिः क्रियते स वै नाग्नीषोमीयस्य पशोः करोति नाग्नेयस्य वशाया एवानूबन्ध्यायै तां हि सर्वोऽनु यज्ञः संतिष्ठत एतदु हास्याग्नीषोमीयस्य च पशोराग्नेयस्य च हृदयशूलेन चरितं भवति यद्वशायाश्चरन्ति - ३.८.५.[११]

अथ निग्राभ्याभिरुपसृजति । आपो ह वै वृत्रं जघ्नुस्तेनैवैतद्वीर्येणापः स्यन्दन्ते तस्मादेनाः स्यन्दमाना न किं चन प्रतिघारयति ता ह स्वमेव वशं चेरुः कस्मै नु वयं तिष्ठेमहि याभिरस्माभिर्वृत्रो हत इति सर्वं वा इदमिन्द्राय तस्थानमास यदिदं किं चापि योऽयं पवते - ३.९.४.[१४] स इन्द्रोऽब्रवीत् । सर्वं वै म इदं तस्थानं यदिदं किं च तिष्ठध्वमेव म इति ता होचुः किं नस्ततः स्यादिति प्रथमभक्ष एव वः सोमस्य राज्ञ इति तथेति ता अस्मा अतिष्ठन्त तास्तस्थाना उरसि न्यगृह्णीत तद्यदेना उरसि न्यगृह्णीत

ते प्रातःसवन एव । सर्वं यज्ञं समस्थापयन्नेतस्मिन्नेव ग्रहे यजुष्टः प्रथमे स्तोत्रे सामतः प्रथमे शस्त्र ऋक्तस्तेन संस्थितेनैवात ऊर्ध्वं यज्ञेनाचरन्त्स एषोऽप्येतर्हि तथैव यज्ञः संतिष्ठत एतस्मिन्नेव ग्रहे यजुष्टः प्रथमे स्तोत्रे सामतः प्रथमे शस्त्र ऋक्तस्तेन संस्थितेनैवात ऊर्ध्वं यज्ञेन चरति - ४.१.१.[७]

स यदि राजोपदस्येत् । तमत एव तन्वीरन्नतः प्रभावयेयुरात्मा वा आग्रयण आत्मनो वा इमानि सर्वाण्यङ्गानि प्रभवन्त्येतस्मादन्ततो हारियोजनं ग्रहं गृह्णाति तदात्मन्येवास्यां प्रतिष्ठायामन्ततो यज्ञः प्रतितिष्ठति - ४.२.२.[५]

एष वै प्रजापतिः । य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते स यानुपकीर्णे सादयति तस्माद्यास्ताननु प्रजाः प्रजायन्ते ता अन्येनात्मनोऽस्यां प्रतितिष्ठन्ति या वै शफैः प्रतितिष्ठन्ति ता अन्येनात्मनोऽस्यां प्रतितिष्ठन्त्यथ यदेतं व्युह्य न तृणं चनान्तर्धाय सादयति तस्माद्या एतमनु प्रजाः प्रजायन्ते या आत्मनैवास्यां प्रतितिष्ठन्ति मनुष्याश्च श्वापदाश्च - ४.२.४.[१६]

स जुहोति । उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यं स्वाहेत्येतया गायत्र्या गायत्री वा इयं पृथिवी सेयं प्रतिष्ठा तदस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति - ४.३.४.[९]

अथातो गृह्णात्येव । आतिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना उपयामगृहीतोऽसीन्द्राय त्वा षोडशिन एष ते योनिरिन्द्राय त्वा षोडशिन इति - ४.५.३.[९]

अथाश्वानद्भिरभ्युक्षति । स्नपनायाभ्यवनीयमानान्त्स्नपितान्वोदानीतानद्भ्यो ह वा अग्रेऽश्वः सम्बभूव सोऽद्भ्यः सम्भवन्न सर्वः समभवदसर्वो हि वै समभवत्तस्मान्न सर्वैः पद्भिः प्रतितिष्ठत्येकैकमेव पादमुदच्य तिष्ठति तद्यदेवास्यात्राप्स्वहीयत तेनैवैनमेतत्समर्धयति कृत्स्नं करोति तस्मादश्वानद्भिरभ्युक्षति स्नपनायाभ्यवनीयमानान्त्स्नपितान्वोदानीतान् - ५.१.४.[५]

अथ मरीचीः । अञ्जलिना संगृह्यापिसृजत्यापः स्वराज स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेत्येता वा आपः स्वराजो यन्मरीचयस्ता यत्स्यन्दन्त इवान्योऽन्यस्या एवैतच्छ्रिया अतिष्ठमाना उत्तराधरा इव भवन्त्यो यन्ति स्वाराज्यमेवास्मिन्नेतद्दधात्येता वा एका आपस्ता एवैतत्सम्भरति - ५.३.४.[२१] ता वा एताः । सप्तदशापः सम्भरति सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञस्तस्मात्सप्तदशापः सम्भरति - ५.३.४.[२२]

नैयग्रोधपादं भवति । तेन मित्र्यो राजन्योऽभिषिञ्चति पद्भिर्वै न्यग्रोधः प्रतिष्ठितो मित्रेण वै राजन्यः प्रतिष्ठितस्तस्मान्नैयग्रोधपादेन मित्र्यो राजन्योऽभिषिञ्चति - ५.३.५.[१३] आश्वत्थं भवति । तेन वैश्योऽभिषिञ्चति स यदेवादोऽश्वत्थे तिष्ठत इन्द्रो मरुत उपामन्त्रयत तस्मादाश्वत्थेन वैश्योऽभिषिञ्चत्येतान्यभिषेचनीयानि पात्राणि भवन्ति - ५.३.५.[१४]

त्रिवृद्राथन्तरः संधिर्भवति । एष एवैकविंशो य एष तपति स एतस्मादेकविंशादपयुङ्क्ते स सप्तदशमभिप्रत्यवैति सप्तदशात्पञ्चदशं पञ्चदशादस्यामेव त्रिवृति प्रतिष्ठायां प्रतितिष्ठति - ५.५.३.[४]

तं शिक्योदुतम् । उपर्युपर्याहवनीयं धारयन्ति सा या परिशिष्टा परिस्रुद्भवति तामासिञ्चति तां विक्षरन्तीमुपतिष्ठते पितॄणां सोमवतां तिसृभिर्ऋग्भिः पितॄणां बर्हिषदां तिसृभिर्ऋग्भिः पितॄणामग्निष्वात्तानां तिसृभिर्ऋग्भिस्तद्यदेवमुपतिष्ठते यत्र वै सोम इन्द्रमत्यपवत स यत्पितॄनगच्छत्त्रया वै पितरस्तेनैवैनमेतत्समर्धयति कृत्स्नं करोति तस्मादेवमुपतिष्ठते - ५.५.४.[२८]

तस्य शिर एवाहवनीयः । अथ य आहवनीयेऽग्निर्य एवायं शीर्षन्प्राणः सोऽस्य स

तद्यत्स पक्षपुच्छवान्भवति पक्षपुच्छवान्ह्ययं शीर्षन्प्राणश्चक्षुः शिरो दक्षिणं श्रोत्रं दक्षिणः पक्ष उत्तरं श्रोत्रमुत्तरः पक्षः प्राणो मध्यमात्मा वाक्पुच्छं प्रतिष्ठा तद्यत्प्राणा वाचान्नं जग्ध्वा प्रतितिष्ठन्ति तस्मात्प्राणानां वाक्पुच्छं प्रतिष्ठा - ७.१.२.[१३]

यद्वेवोपतिष्ठते । अयं वै लोको गार्हपत्यः प्रतिष्ठा वै गार्हपत्य इयमु वै प्रतिष्ठाऽथैतदपथमिवैति यदेतां दिशमेति तद्यदुपतिष्ठत इमामेवैतत्प्रतिष्ठामभिप्रत्यैत्यस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति - ७.२.१.[१९]

पशवोऽन्नं पशवस्त एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनास्मिंल्लोके प्रत्यतिष्ठंस्तथैवैतद्यजमान एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनास्मिंलोके प्रतितिष्ठति - ८.३.४.[१०]

यद्वेवैतच्छतरुद्रियं जुहोति । प्रजापतेर्विस्रस्ताद्देवता उदक्रामंस्तमेक एव देवो नाजहान्मन्युरेव सोऽस्मिन्नन्तर्विततोऽतिष्ठत्सोऽरोदीत्तस्य यान्यश्रूणि प्रास्कन्दंस्तान्यस्मिन्मन्यौ प्रत्यतिष्ठन्त्स एव शतशीर्षा रुद्रः समभवत्सहस्राक्षः शतेषुधिरथ या अन्या विप्रुषोऽपतंस्ता असंख्याता सहस्राणीमांल्लोकाननुप्राविशंस्तद्यद्रुदितात्समभवंस्तस्माद्रुद्राः सोऽयं शतशीर्षा रुद्रः सहस्राक्षः शतेषुधिरधिज्यधन्वा प्रतिहितायी भीषयमाणोऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अबिभयुः - ९.१.१.[६]

प्रतिष्ठा शंयोर्वाकः।  स यो ह वै प्रतिष्ठा शंयोर्वाकेति वेदाव ह प्रतिष्ठां रुन्द्धेऽथो यत्किं च प्रतिष्ठया जय्यं सर्वं हैव तज्जयति गच्छति प्रतिष्ठाम् - ११.२.७.[२९]

ते ह देवा ऊचुः। उप तं यज्ञक्रतुं जानीत। य ऊर्ध्वस्तोमः। येनेदमाप्नवामेति। त एतमूर्ध्वस्तोमं दशरात्रमपश्यन् संवत्सरविधन् तस्य यः पृष्ठ्यः षडहः। ऋतवः सः। इमे लोकाश्छन्दोमाः। संवत्सरो दशममहः।तेनैनदाप्नुवन्। तदेभ्योऽतिष्ठत। तिष्ठते ह वा अस्मै महाव्रतम्। य एवमेतद्वेद॥१२.२.३.९॥

एतद्ध स्म वै तद्विद्वानाह पैंग्यः।प्लवन्त इव वा अभिप्लवाः। तिष्ठतीव पृष्ठ्य इति। प्लवत इव ह्ययमंगैः। तिष्ठतीवात्मनेति॥१२.२.४.८॥

तस्य हैतस्य  साम्नो यः प्रतिष्ठां वेद। प्रति ह तिष्ठति तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयतेऽन्न इत्यु हैक आहुः - १४.४.१.२९

यदा वै स्कन्दत्य् अथ धीयते। रेतो वै पयो योनिर् इयम्। योन्याम् एवैतद् रेतः प्रतिष्ठापयति। अनुष्ठ्यास्य रेतस् सिक्तं प्रजायते य एवं वेद। अमुतो वै पर्जन्यस् स्कन्दतीहौषधयो वनस्पतयो जायन्ते। पुरुषाद् रेतस् स्कन्दति पशुभ्यः। - जै.ब्रा. 1.53

प्राणो वै गार्हपत्यो ऽपान आहवनीयः। संविदानौ वा इमौ प्राणापानाव् अन्नम् अत्त इति वदन्तः। अथो गृहो वै गार्हपत्यः। प्रतिष्ठो वै गृहाः। - 1.61

सो ऽकामयत प्रैव जायेयेति। स पद्भयाम् एव प्रतिष्ठाया एकविंशं स्तोमम् असृजतानुष्टुभं छन्दो यज्ञायज्ञीयं साम न कां चन देवतां शूद्रं मनुष्यम् अवि पशुम्। तस्माच् छूद्रो ऽनुष्टुप्छन्दा वेश्मपतिदेवः। तस्माद् उ पादावनेज्येनैव जिजीविषति। पद्भयां ह्य् एनं प्रतिष्ठाया असृजत॥ - 1.69

अनुष्टुभं गायति। वाग् वा अनुष्टुप्। ताम् अर्वाचीम् अभिनुदन् गायति वाचो ऽनपक्रमाय। यत् पराचीम् अपनुदन् गायेद् वाचं प्रधमेद् वाग् अस्माद् अपक्रामुका स्यात्। तां यद् अर्वाचीम् अभिनुदन् गायत्य् आत्मन्न् एव तद् वाचं प्रतिष्ठापयति। -1.102

तानि वा एतान्य् ऐन्द्राग्नान्य् एव सर्वाणि यद् आज्यानि। आग्नेयीषु स्तुवन्ति। तेनाग्नेयं गायत्री छन्दस् तेनाग्नेयं पञ्चदशस्तोमस् तेनैन्द्रम्॥

-- - - -तद् एतद् ऐन्द्राग्नम् एव। इन्द्राग्नी यज्ञस्य देवता। स्वायाम् एवैतद् देवतायां प्रातस्सवने यज्ञं प्रतिष्ठापयन्ति॥1.110॥

पवमानो वाव यज्ञः। तस्य गायत्र्य् एव प्रतिष्ठा। गायत्रीं चतुर्ऋचां कुर्याद्। यज्ञस्यैव तत्प्रतिष्ठां दधाति। प्रति यज्ञं स्थापयति प्रत्य् आत्मना तिष्ठति॥

  • 1.119

युधाजीवो वैश्वामित्रः प्रतिष्ठाकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा साम। - 1.122

एष वै देवरथो यद् रथन्तरम्। रथन्तरे प्रस्तुते पृथिवीं हस्ताभ्यां गच्छेद् देवरथस्यानपव्याथाय॥1.130॥

एकम् अक्षरं स्तोभति। तस्माद् अरेणारेण रथः प्रतितिष्ठन्न् एति॥

     द्वे अक्षरे स्तोभति। द्वे रथस्य पक्षसी। पक्षाभ्याम् एव तद् देवरथं प्रतिष्ठापयति॥

     त्रीण्य् अक्षराणि स्तोभति। द्विपाद् वै यजमान आत्मा तृतीयः। यजमान एव तत् प्रतितिष्ठति। अथो त्रय इमे लोकाः। तान् एव तद् आप्नोति॥

     चत्वार्य् अक्षराणि स्तोभति। चतस्रो दिशश् चतुष्पादाः पशवः। दिक्षु चैतत् पशुषु च प्रतितिष्ठति॥

     पञ्चाक्षराणि स्तोभति। पांक्तो यज्ञः पांक्ताः पशवः। यज्ञे चैतत् पशुषु च प्रतितिष्ठति॥

     षड् अक्षराणि स्तोभति। षड् वा ऋतवः। ऋतुष्व् एव तत् प्रतितिष्ठति। अथो षड् वै छन्दांसि। तान्य् एव तद् आप्नोति॥

     सप्ताक्षराणि स्तोभति। सप्तपदा वै शक्वर्यः।शाक्वराः पशवः। पशुष्व् एव तच् छक्वर्यां प्रतितिष्ठति। अथो सप्त चतुरुत्तराणि छन्दांसि सप्त मुख्याः प्राणाः। तान्य् एव तद् आप्नोति॥

     अष्टाक्षराणि स्तोभति। अष्टाक्षरा वै गायत्री। तेजो ब्रह्मवर्चसं गायत्री। तेजस्व् एव तद् ब्रह्मवर्चसे प्रतितिष्ठति। अथो अष्टाशफेष्व् एव पशुषु॥1.131॥

 

     नवाक्षराणि स्तोभति। नव वै पुरुषे प्राणाः। प्राणान् एवैतद् द्विषतो भ्रातृव्यस्य वृञ्ज्यात्। प्राणान् आत्मन् धत्ते ऽथो भ्रातृव्यस्य। त्रिवृत एव स्तोमस्य स्तोत्रम् आप्नोति॥

     दशाक्षराणि स्तोभति। दशाक्षरा विराड् अन्नं विराट्। विराज्य एव तद् अन्नाद्ये प्रतितिष्ठति। अथो दश प्राणाः। तान् एव तद् आप्नोति॥

     एकादशाक्षराणि स्तोभति। एकादशाक्षरा त्रिष्टुप्। इन्द्रियं वीर्यं त्रिष्टुप्। इन्द्रियम् एव तद् वीर्ये प्रतितिष्ठति॥

     द्वादशाक्षराणि स्तोभति। द्वादशाक्षरा वै जगती। पशवो जगती। पशुष्व् एव तज् जगत्यां प्रतितिष्ठति। अथो द्वादश मासाः। तान् एव तद् आप्नोति॥

     त्रयोदशाक्षराणि स्तोभति। य एवासाव् अधिचरस् त्रयोदशो मासस् तम् एव तद् आप्नोति॥

चतुर्दशाक्षराणि स्तोभति। संवत्सरो वै चतुर्दशः। संवत्सर एव तत् प्रतितिष्ठति॥

     पञ्चदशाक्षराणि स्तोभति। पञ्चदश वा अर्धमासस्य रात्रयः। अर्धमासश एव संवत्सरम् आप्नोति॥

षोडशाक्षराणि स्तोभति। षोडशकलो वै पुरुषः। कला एव तद् द्विषन्तं पाप्मानं भ्रातव्यम् अवाञ्चम् अपवहन्ति श्रियम् आत्मनाश्नुते। अथो षोडशिन एव स्तोमस्य स्तोत्रम् आप्नोति॥

     सप्तदशाक्षराणि स्तोभति। प्रजापतिर् वै सप्तदशः। प्रजापताव् एव तत् प्रतितिष्ठति॥1.132॥

अरत इव वा एष भवति यो न प्रतितिष्ठति। लेलेव वै रात्री रतिर् वा एषा। ततस् स प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा साम। - 1.216

रथन्तरेण प्रतिष्ठाकामस् स्तुवीत। प्रतिष्ठा वै रथन्तरम्। प्रत्य् एव तिष्ठति॥ - - --अनुष्टुप्सु प्रतिष्ठाकामः। प्रतिष्ठा वा अनुष्टुप्। प्रत्य् एव तिष्ठति॥ - 1.229

तौ यद् गायत्रीं संपद्येते - तेजो वै ब्रह्मवर्चसं गायत्री -- तेजस्य् एव तद् ब्रह्मवर्चसे प्रतितिष्ठति। -1.232

त्रिवृत्पञ्चदशाभ्यां पुरुषो ऽस्मिन् लोके प्रतिष्ठितः। स यम् एव हरति स त्रिवृद् येन प्रतितिष्ठति स पञ्चदशः। तौ वा एताव् उभाव् एव त्रिवृताव् उभौ पञ्चदशौ। तेजो वै ब्रह्मवर्चसं त्रिवृत् स्तोम ओजो वीर्यं पञ्चदशः। ओजसैव तद् वीर्येण प्रतिष्ठाय तेजो ब्रह्मवर्चसं हरति य एवं वेद॥1.253॥

तद् यद् रथन्तरस्यर्चैवापरिष्टुभ्य प्रस्तौति तस्माद् राथन्तराः पशवो ऽस्थिप्रतिष्ठाना आद्याः। अथ यस्माद् बृहतस् स्तोभेन परिष्टुभ्य प्रस्तौति तस्माद् बार्हताः पशवो मांसप्रतिष्ठाना अत्तारः। - 1.297

अयं वै लोक इळा पशव इळा पशवो ऽयं लोकः। इदम् एवान्तरिक्षं स्वरः प्राणस् स्वरः। प्राणो वा अन्तरिक्षम्। असाव् एव लोको निधनं गतिः प्रतिष्ठा। तान्य् उ ह वै यो जामि यथापूर्वं कल्पयेत्। -1.307

स्वारं मैत्रावरुणसाम। प्राणस् स्वरः प्राणो मैत्रावरुणसाम॥

द्व्यक्षरणिधनं ब्रह्मसाम। द्वन्द्वं प्रतिष्ठा प्रतिष्ठा ब्रह्मसाम॥

ऐळम् अच्छावाकसाम। पशव इळा पशवो ऽच्छावाकसाम॥ - 1.309

पशवो वा इळायतनं रथन्तरम्। आयतन एव तद् एतान् पशून् प्रतिष्ठापयति॥

  • 1.330

तद् यद् अप्रस्तुतम् अप्रतिहृतं साम भवत्य् अमुष्मिन्न् एवैनं तल् लोके प्रतिष्ठापयन्ति। स्तुतम् अनुशंसन्त्य् एता ऋचो ऽअनुब्रुवन्तो दक्षिणान् ऊरून् उपाघ्नानाः। - 1.345

अथ याव् अतिरात्रौ प्रतिष्ठैव सा। अस्मिन्न् एव लोके प्रायणीयेनातिरात्रेण प्रतिष्ठाय प्रयन्ति। अमुष्न् लोक उदयनीयेनातिरात्रेण प्रतिष्ठायोद्यन्ति। ते हाप्य् अबुभूषन्त इव भवन्ति, प्रत्य् इव तिष्ठन्ति॥2.44॥

प्रतिष्ठा द्विपदा, मांसानि विराट्, शरीराण्य् अतिच्छन्दाः। - 2.58

श्रीर् वै बृहज् ज्यैष्ठ्यम्। अदो वै बृहद् अदो वै ज्यैष्ठ्यम्। तद् एनं तच् छ्रियाम् एव मध्यतो ज्यैष्ठ्ये प्रतिष्ठापयन्ति। - 2.97

ब्रह्म वै रथन्तरं, क्षत्रं पञ्चदशः। ब्रह्मैव तत् क्षत्रे प्रतिष्ठापयन्ति। अथ यत् त्रिवृद् धोतुः पृष्ठं भवति - ब्रह्म वै त्रिवृत्, क्षत्रं बृहत् - क्षत्रम् एव तद् ब्रह्मन् प्रतिष्ठापयन्ति। ताव् एताव् एवम् अन्यो ऽन्यस्मिन् प्रतिष्ठाय श्रेष्ठताम् अगच्छताम्। - 2.133

त्रिवृता तेजस्कामो ब्रह्मवर्चसकामो ऽग्निष्टुता यजेत, पञ्चदशेन वीर्यकामस्, सप्तदशेन पशुकामः प्रजननकाम, एकविंशेन प्रतिष्ठाकामस्, त्रिणवेनौजस्कामस्, त्रयस्त्रिंशेन श्रीकामः। - 2.136

अथो यथा रथाक्षे रथचक्रं प्रतिमुञ्चेद् एवम् एवैतानि सर्वाणि शिल्पान्य् आहृत्य ब्रह्मन् प्रतिष्ठापयन्ति ये गायत्रीषु बृहद् अग्निष्टोमसाम कुर्वन्ति। - 2.191

प्राणैर् वै प्रजाः पशवः परिगृहीता उपतिष्ठन्ते। तद् यैः प्राणैः प्रजाः पशवः परिगृहीता उपतिष्ठन्ते, तैर् मा प्राणैः प्रजा पशवः परिगृहीता उपतिष्ठान्ता इति।– 2.301

एषा वै कृत्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवास्मिन् लोके प्रतितिष्ठति। पृष्ठ्यष् षडहो भवति - स्वर्गो वै लोकः पृष्ठ्यष् षडह - स्वर्गम् एवैतेन लोकं गच्छति। ज्योतिर् अतिरात्र उपरिष्टाद् भवत्य् - एषा वै कृत्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवामुष्मिन् लोके प्रतितिष्ठति॥2.312॥

एते ह खलु वै छन्दसां वीर्यवत्तमे यद् विराट् च गायत्री च। ते ये छन्दसां वीर्यवत्तमे तयोर् ऋध्नवाम, तयोः प्रतितिष्ठाम, ताभ्यां न स्तुतम् असद् इति। - 2.335

स य श्रेष्ठ ऋतूनां हेमन्तस् तस्य प्रतिष्ठाम् अनु प्रतितिष्ठन्तो ऽयामेति।– 2.356

एकविंशो विषुवान् भवति। एकविंशो वा अस्य भुवनस्य विषुवान्। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। सर्वस्मिन् वा एषो ऽस्मिन्न् अधिप्रतिष्ठितः। तद् यस्मिन्न् एव सर्वस्मिन्न् अधि प्रतिष्ठितस्, तस्मिन् सर्वस्मिन्न् अधि प्रतितिष्ठामेति। - 2.389

एषा ह वै साम्नः प्रतिष्ठा यन् निधनम्। षड् एतानि निधनवन्ति भवन्ति, षड् ऋतवस् संवत्सरः। -2.420

सा हैषा संवत्सरस्य प्रतिष्ठा यद् अहः। स यो हास्यैतां प्रतिष्ठां वेद, प्रतितिष्ठति। - 2.431

अथ त्वाष्ट्रीसाम मध्येनिधनं भवति प्रतिष्ठायै। समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव।– 3.19

अथ काण्वम्। कण्वो वै नार्षदो ज्योग् अप्रतिष्ठितश् चरन् सो ऽकामयत - प्रति - तिष्ठेयम् इति। स एतत् सामापश्यत्। तस्य निधनं नापश्यत्। स वृषदंशस्य क्ष्वत उपाशृणोत्। तद् अपश्यत्। तेनास्तुत। ततो वै स प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा - साम। प्रतितिष्ठति य एवं वेद। - 3.46

अथो पशवो वा उक्थान्य्, आत्मा मध्यन्दिनः। तद् यत् सत्रासाहीयं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् पशून् प्रतिष्ठापयन्ति॥3.69॥

गावो वै शक्वर्यः। तासाम् एषा पारे प्रतिष्ठा च तीर्थं च यद् अथकारश् चाध्यर्धा चेळा। निष्टाभिश् शक्वरीभिः पाप्मानं तरति, श्रियम् अश्नुते य एवं वेद। - 3.103

योनिर् वै यज्ञस्य चात्वालं, रेत आपो योन्याम् एवैतद् रेतः प्रतिष्ठापयति। - 3.115

तद् यद् रेवतीर् मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् पयः प्रतिष्ठापयन्ति। रेतो वै रेवतयः। आत्मा मध्यन्दिनः। तद् यद् रेवतीर् मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् रेतः प्रतिष्ठापयन्ति। - 3.144

अथाकूपारम्। अकूपारो वै कश्यपः। कलिभिस् सह समुद्रम् अभ्यवैषत्। तस्मिन् प्रतिष्ठाम् ऐच्छत्। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स समुद्रे प्रतिष्ठाम् अविन्दतेमाम् एव पृथिवीम्। ततो ह स्म वै तस्य कलयः पृष्ठ आसते। तद् एतत् प्रतिष्ठासाम। प्रतितिष्ठति य एवं वेद। समुद्रो वै छन्दोमाः। कश्यपो वै समुद्रम् अतिपारयितुम् अर्हति। - 3.273

तेजो वै यज्ञायज्ञीयम्, आत्मा मध्यन्दिनः। तद् यद् यज्ञायज्ञीयं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् तेजः प्रतिष्ठापयन्ति। - 3.290

अथ संहितं द्वयक्षरणिधनं प्रतिष्ठायै। द्विपाद् वै यजमानः प्रतिष्ठित्यै।