prabhasa
प्रभास
टिप्पणी – लोकभाषा में भास का अर्थ किसी सत्य के विषय में झलक या अपूर्ण ज्ञान होने से लिया जाता है। इस प्रकार प्रभास का अर्थ होगा किसी सत्य के विषय में एक निश्चित झलक प्राप्त होना। भास का प्रभास में बदलना सामान्य रूप से संभव नहीं है। भास को भाष के रूप में भी समझा जा सकता है। हम कुछ भी कह सकते हैं। वह भाषण है। लेकिन भगवद्गीता में अर्जुन कृष्ण से प्रश्न करता है कि स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्। अर्थात् जो व्यक्ति स्थितप्रज्ञ हो गया है, वह कैसे प्रभाषण करता है, कैसे बैठता है, कैसे चलता है। प्रभाष का अर्थ होगा कि जो उसने कह दिया, वह ध्रुव सत्य होगा।
पुराणों में एकमत से प्रभास का उल्लेख आठवें वसु के रूप में किया जाता है जिसका पुत्र विश्वकर्मा है। सातवें वसु का नाम प्रत्यूष है जिसका पुत्र देवल है। जैसा कि संगीत में राग शब्द की टिप्पणी में उल्लेख किया जा चुका है, संगीत में छठें स्वर का नाम धैवत है और सप्तम स्वर का नाम निषाद है। यहां धैवत को दैवत, भाग्य के रूप में समझा जा सकता है और निषाद को निःससाद - जहां सारे पाप बैठ गए हों – वह निष्क्रिय बन गए हों – के रूप में समझा जा सकता है। इसी प्रकार वसुओं के संदर्भ में सातवें वसु के पुत्र देवल को दैव-ल(दैव का लालन करने वाला) का, हमारे भाग्य का परिष्कार करने वाले का रूप समझा जा सकता है। जो कुछ भाग्य में लिखा है, वह तो होकर ही रहेगा, इस धारणा को जो गलत सिद्ध कर दे, वह देवल कहलाएगा। दैव का विपरीत पुरुषार्थ होता है। लेकिन यह ध्यान देने योग्य है कि देवल पुरुषार्थ से सम्बन्धित नहीं है, अपितु किसी प्रकार से कर्मों के फलों से उत्पन्न जो बीज प्रतिदिन के कार्य से पहले अंकुरित होकर हमारे जीवन का निर्माण कर रहे हैं, उन बीजों के अंकुरण को रोकने से, बीजों को भून देने से संबंधित है। इसका प्रमाण यह है कि देवल प्रत्यूष का, प्रति – उषा का पुत्र है। उषा का अर्थ है जो सूर्य से पहले उदित हो जाती है। प्रति – उषा का अर्थ होगा इस उषा का उल्टा रूप, विज्ञान के अनुसार उषा की दर्पण में छाया, अंग्रेजी भाषा में मिरर इमेज। वह कर्म फल रूपी बीजों को अंकुरित होने से रोकेगी। फिर आठवें वसु प्रभास से पुरुषार्थ का आरम्भ हो जाता है। इसका प्रमाण यह है कि प्रभास का पुत्र विश्वकर्मा है। विश्वकर्मा को देवों का शिल्पी कहा जाता है। लेकिन व्यापक चिंतन के अनुसार विश्वकर्मा को पुरुषार्थ का, कर्म का कर्ता भी समझा जा सकता है। सामान्य कर्म और विश्वकर्मा के कर्म में अन्तर इतना ही होगा कि विश्वकर्मा के कर्म से देव सृष्टि होगी।
लोक में दो काल हैं – प्रभात और प्रभास। यह समझना अपेक्षित है कि इन दोनों में क्या अन्तर है। प्रभात को प्रातःकाल कहा गया है जो सूर्य का पूर्व दिशा में उदय से सम्बन्धित है जबकि प्रभास क्षेत्र को पुराणों में पश्चिम दिशा में, सूर्य के अस्त होने की दिशा में स्थान दिया गया है। पश्चिम दिशा को कर्मफलों के अस्त हो जाने की दिशा कहा गया है।
महाभारत में भीष्म को आठवें वसु द्यौ का अवतार कहा गया है। यह ध्यान देने योग्य है कि महाभारत में केवल भीष्म के संदर्भ में ही आठवें वसु को द्यौ कहा गया है। यदि द्यौ को प्रभास ही मान लिया जाए, तो भीष्म का चरित्र प्रभास के विषय में क्या सूचना प्रदान करता है। भीष्म (भी – शम, भय को शान्त कर देने वाला) से प्रभाषण तभी उत्पन्न होता है जब भीष्म शरशय्या पर पडे होते हैं। इसका अर्थ हुआ कि यदि शरशय्या वाली स्थिति प्रभाष या प्रभास है तो बिना शरशय्या वाली स्थिति भाष या भास होनी चाहिए।
प्रथम लेखन – 1-12-2014ई.(मार्गशीर्ष शुक्ल दशमी, विक्रम संवत् 2071)
संदर्भ
१,०४९.०४ व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् ।
१,०४९.०४ तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत ॥
१,०५०.०४ तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
१,०५०.०४ विश्वमा भासि रोचनम् ॥
१,०९२.०७ भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः ।
१,०९२.०७ प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्रां उप मासि वाजान् ॥
१,०९२.०८ उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम् ।
१,०९२.०८ सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥
१,११३.०४ भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः ।
१,११३.०४ प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा ॥
१,१२१.०७ स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः ।
१,१२१.०७ यद्ध प्रभासि कृत्व्यां अनु द्यूननर्विशे पश्विषे तुराय ॥
२,००१.१० त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे ।
२,००१.१० त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः ॥
२,००२.०२ अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः ।
२,००२.०२ दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः ॥
२,००४.०५ आ यन्मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् ।
२,००४.०५ स चित्रेण चिकिते रंसु भासा जुजुर्वां यो मुहुरा युवा भूत् ॥
३,००६.०७ दिवश्चिदा ते रुचयन्त रोका उषो विभातीरनु भासि पूर्वीः ।
३,००६.०७ अपो यदग्न उशधग्वनेषु होतुर्मन्द्रस्य पनयन्त देवाः ॥
५,०७७.०४ यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठं पित्वो ररते विभागे ।
५,०७७.०४ स तोकमस्य पीपरच्छमीभिरनूर्ध्वभासः सदमित्तुतुर्यात् ॥
६,००१.११ आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः ।
६,००१.११ बृहद्भिर्वाजै स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि ॥
६,००४.०३ द्यावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः ।
६,००४.०३ वि य इनोत्यजरः पावकोऽश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥
६,००४.०६ आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा ।
६,००४.०६ चित्रो नयत्परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन् ॥
६,०१०.०४ आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा ।
६,०१०.०४ अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः ॥
६,०१२.०५ अध स्मास्य पनयन्ति भासो वृथा यत्तक्षदनुयाति पृथ्वीम् ।
६,०१२.०५ सद्यो यः स्यन्द्रो विषितो धवीयानृणो न तायुरति धन्वा राट् ॥
६,०६४.०२ भद्रा ददृक्ष उर्विया वि भास्युत्ते शोचिर्भानवो द्यामपप्तन् ।
६,०६४.०२ आविर्वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः ॥
७,००५.०४ तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त ।
७,००५.०४ त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥
७,०१०.०१ उषो न जारः पृथु पाजो अश्रेद्दविद्युतद्दीद्यच्छोशुचानः ।
७,०१०.०१ वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः ॥
८,०२३.०५ उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा ।
८,०२३.०५ अभिख्या भासा बृहता शुशुक्वनिः ॥
८,०२३.२० तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् ।
८,०२३.२० विशामग्निमजरं प्रत्नमीड्यम् ॥
९,०९७.३२ कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम ।
९,०९७.३२ स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम् ॥
१०,००३.०१ इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि ।
१०,००३.०१ चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥
१०,०२०.०३ यमासा कृपनीळं भासाकेतुं वर्धयन्ति ।
१०,०२०.०३ भ्राजते श्रेणिदन् ॥
१०,०७७.०५ यूयं धूर्षु प्रयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासा व्युष्टिषु ।
१०,०७७.०५ श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ॥
१०,१६३.०४ ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
१०,१६३.०४ यक्ष्मं श्रोणिभ्यां भासदाद्भंससो वि वृहामि ते ॥
२,६ ५ चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देव जुष्टाम् उदाराम् ।
२,६ ५ तम् पद्म नेमिम् शरणम् प्रपद्येऽलक्ष्मीर् मे नश्यताम् त्वाम् वृणोमि ॥६ – ऋ. खिल 2.6.5
४ २ १ १५ ०१ यस्ते मदो वरेण्यस्तेना पवस्वान्धसा।
४ २ १ १५ ०१ देवावीरघशंसहा॥ ८१५
४ २ १ १५ ०२ जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे।
४ २ १ १५ ०२ गोषातिरश्वसा असि॥ ८१६
४ २ १ १५ ०३ सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि।
४ २ १ १५ ०३ सीदं च्छ्येनो न योनिमा॥ ८१७
४ १ १ १५ ०१ स्वादिष्ठया मदिष्ठया पवस्व सोम धारया।
४ १ १ १५ ०१ इन्द्राय पातवे सुतः॥ ६८९
४ १ १ १५ ०२ रक्षोहा विश्वचर्षणिरभि योनिमयोहते।
४ १ १ १५ ०२ द्रोणे सधस्थमासदत्॥ ६९०
४ १ १ १५ ०३ वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः।
४ १ १ १५ ०३ पर्षि राधो मघोनाम्॥ ६९१
४ ५ १ १५ ०१ पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः।
४ ५ १ १५ ०१ वायुमा रोह धर्मणा॥ १२३५
४ ५ १ १५ ०२ पवमान नि तोशसे रयिं सोम श्रवाय्यम्।
४ ५ १ १५ ०२ इन्दो समुद्रमा विश॥ १२३६
४ ५ १ १५ ०३ अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः।
४ ५ १ १५ ०३ नुदस्वादेवयुं जनम्॥ १२३७
*स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत्। तं देवाश् चर्षयश् चाभिषज्यन्। त एतानि दिवाकीर्त्यानि सामान्य् अपश्यन्। तैर् अस्य तमो ऽपाघ्नन्। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य्, आदित्यस्यैवैतैस् तमो ऽपघ्नन्ति। यादृग् अह वै मनुष्यो देवेभ्यः करोति, तादृग् अस्मै देवाः कुर्वन्ति। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य् आत्मन एवैतैस् तमो ऽपघ्नते। भ्राजाभ्राजे पवमानयोर् मुखे भवतः। अङ्गेभ्य एवास्य तत् तमो ऽपघ्नन्ति। महादिवाकीर्त्यं पृष्ठं, विकर्णं ब्रह्मसाम। मध्यत एवास्य तत् तमो ऽपघ्नन्ति। दशस्तोभं भासम् अग्निष्टोमसाम। शीर्षत एवास्य तत् तमो ऽपघ्नन्ति। असाव् आदित्य एकविंशो विषुवांस्, तस्य दिवाकीर्त्यान्य् एव रश्मयः। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य् एतम् एवैतैः पर्यूहन्त्य्, एतं समर्धयन्ति। तद् आहुः केन संवत्सरसद स्वर्गलोक इति। मूर्धानं दिवो अरतिं पृथिव्या इत्य् अग्निष्टोमसाम भवतीति ब्रूयात्। तेनेति। असौ वै दिवो मूर्धा यो ऽसौ तपत्य्, एतम् एवैतेनाभ्यारोहन्ति। तद् आहुः - प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते, य एतम् अभ्यारोहन्तीति। अरतिं पृथिव्या इति भवति। अयं वै लोको ऽरतिः पृथिव्या, अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। दशस्तोभं भासम् अग्निष्टोसाम भवति - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै। ईश्वरा ह त्व् अन्यस्मै मूर्धन्न् अन्नाद्यं हर्तोर् य एतासु मूर्धन्वतीष्व् अग्निष्टोमसाम कुर्वन्तीति। तद् अनुष्टुभ्य् एव कार्यम्। वाग् वा अनुष्टुब् अन्नं दशस्तोभम्। मुखतो वै वाग् इयं, मुखत एवैतद् आत्मनो ऽन्नाद्यं दधते, तस्माद् अनुष्टुभ्य् एव कार्यम् इति॥- जै.ब्रा. 2.390॥
*यदिदं पश्यामि चक्षुषा । त्वया दत्तं प्रभासया । तेन मा भुञ्ज तेन भुक्षिषीय तेन मा विश छां.ब्रा. 2.5.१२
*स्वर्भानुर्वा आसुरादित्यं तमसाविध्यत् तस्य देवा दिवाकीर्त्यैस्तमोऽपाघ्नन् यद्दिवाकीर्त्यानि भवन्ति तम एवास्मादपघ्नन्ति रश्मयो वा एत आदित्यस्य यद्दिवाकीर्त्यानि रश्मिभिरेव तदादित्यं साक्षादारभन्ते ।13। भ्राजाभ्राजे(अस्य प्रत्नामनुद्युतं इति) पवमानमुखे भवतो मुखत एवास्य ताभ्यां तमोऽपघ्नन्ति ।14। महादिवाकीर्त्यं च विकर्णं (इन्द्र क्रतुं न आभर इति) च मध्यतो भवतो मध्यत एवास्य ताभ्यां तमोऽपघ्नन्ति भासमन्ततो भवति पत्त एवास्य तेन तमोऽपघ्नन्ति ।15। दशस्तोभं भवति दशाक्षरा विराड्विराज्येव प्रतितिष्ठन्ति ।16। – तां.ब्रा. 4.6.16
जैमिनीय ब्राह्मण 2.390 में भासम् साम से शीर्ष से तम का अपनयन करने का उल्लेख है जबकि यहां पदों से। पुराणों में प्रभास क्षेत्र में जरा व्याध द्वारा कृष्ण के पादतल में तीर मारने का कथन है।
*स्वर्भानुर्वा आसुर आदित्यं तमसाविध्यत् तं देवा न व्यजानंस्ते ऽत्रिमुपाधावं- स्तस्यात्रिर्भासेन तमोऽपाहन् यत् प्रथममपाहन् सा कृष्णाविरभवद्यद्द्वितीयं सा रजता यत् तृतीयं सा लोहिनी यया वर्णमभ्यतृणत् सा शुक्लासीत्।8। तस्माच्छुक्लं पवित्रं शुक्रः सोमः स शुक्रत्वाय।9। यं द्विष्यात् तस्यैतेषां वर्णानामपि पवित्रे कुर्यात् पाप्मनैवैनं तमसा विध्यति कृष्णमिव हि तमो योऽस्य प्रियः स्यादासक्तिशुक्लं कुर्याज्ज्योतिर्वै हिरण्यं ज्योतिरेवास्मिन् दधाति।10। तस्मादात्रेयं चन्द्रेणेच्छन्त्यत्रिर्हि तस्य ज्योतिः।11। - तां.ब्रा. 6.6.8-11
*भासं (पवस्व देव इति) भवति भाति तुष्टुवानः।12। पदनिधनं राथन्तरं ह्येतदहः ।13। स्वर्भानुर्वा आसुर आदित्यं तमसाविध्यत् । स न व्यरोचत । तस्यात्रिर्भासेन तमोऽपाहन् । स व्यरोचत यद्वै तद्भा अभवत् तद्भासस्य भासत्वम् ।14। तम इव वा एतान्यहानि यच्छन्दोमास्तेभ्य एतेन साम्ना विवासयति – तां.ब्रा. 14.11.12-15
*महादिवाकीर्त्यम्̐ होतुः पृष्ठम् । विकर्णं ब्रह्मसाम । भासो ऽग्निष्टोमः । - तै.ब्रा. 1.2.4.3
*अथैतानि पराणि । परैर् वै देवा आदित्यम्̐ सुवर्गं लोकम् अपारयन्न् । तस्य वै देवा आदित्यस्य स्वर्गा-ल्लोकादवपातादबिभयुस्तम्पञ्चभी रश्मिभिरुदवयन्रश्मयो वै दिवाकीर्त्यानि महादिवाकिर्त्यम्पृष्ठम्भवति विकर्णम्ब्रह्मसाम भासमग्निष्टोमसामोभे बृहद्रथंतरे पवमानयोर्भवतस्तदादित्यम्पञ्चभी रश्मिभिरुद्वयन्ति धृत्या अनवपाताय – ऐ.ब्रा. 4.19
१,२० बिल्मम् भिल्मम् भासनम् इति वा
१,२० एतावन्तः समान कर्माणो धातवो धातुर् दधातेः
२,१३ आदित्यः कस्माद्, आदत्ते रसान्, आदत्ते भाषम् ज्योतिषाम्, आदीप्तो भाषा इति वा अदितेः पुत्र इति वा।
६,१७ रंसु रमणात् ।
६,१७ ’’स चित्रेण चिकिते रंसु भासाऽऽ
६,२५ बकुरो भास्करो भयंकरो भासमानो द्रवति इति वा।
६,२६ ’’यवम् वृकेण अश्विना वपन्तेषम् दुहन्ता मनुषाय दस्रा।
६,२६ अभि दस्युम् बकुरेणा धमन्तोरु ज्योतिश्चक्रथुर् आर्याय्(ऋग्वेद १,११७,२१)ऽऽ
६,३२ बुन्द इषुर् भवति बुन्दो वा भिन्दो वा भयदो वा भासमानो द्रवतीति वा।
६,३३ ’’तुविक्षम् ते सुकृतम् सूमयम् धनुः साधुर्बुन्दो हिरण्ययः ।
६,३३ उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा।(ऋग्वेद ८,७७,११)ऽऽ
६,३५ ऋबीसम् अपगतभासम् अपहृतभासम् अन्तर्हितभासम् गतभासम् वा।
७,२३ इतो अस्य अर्चिसस् तयोर् भाषोः संसङ्गम् दृष्ट्वा एवम् अवक्ष्यत् ।[८११]
(५२,१०.१) प्रभासश्चन्द्रभासश्च तथागस्त्यः प्रतापवान् । दृढव्रतस्त्रिशङ्कुश्च अजौ वैश्वानरे मृडः ॥
(७० ,२४.४) कोकिलस्य मायुरस्य भासस्य कुरलस्य च । होमेषु श्रवणं चैव प्रादक्षिण्यं च शस्यते ॥
६,३६ ’’हिमेन अग्निम् घ्रंसम् अवारयेथाम्पितुमतीम् ऊर्जम् अस्मा अधत्तम्।
६,३६ ऋबीसे अत्रिम् अश्विना अवनीतम् उन्निन्यथुः सर्वगणम् स्वस्ति।(ऋग्वेद १,११६,८)ऽऽ
७,२३ एस हि द्यावा पृथिवी आव् आभासयति।[८१०]
७,२३ अथ अपि छान्दोमिकम् सूक्तम् सौर्य वैश्वानरम् भवति ऽऽ दिवि पृष्ठो अरोचतऽऽ इति।