pranita

 

प्रणीता

 

अग्निप्रणयनम्

पद्मपुराणे ६.१८५ भगवद्गीतायाः एकादशस्य अध्यायस्य माहात्म्यं वर्ण्यते। अत्र कथनमस्ति - प्रणीतायास्तटे नद्या मेघंकरमिति श्रुतम् । नगरं गरिमाधार तुंगप्राकारगोपुरम्॥ अस्मिन् मेघंकरनगरे चतुर्भुजविष्णोः प्रतिष्ठा अस्ति। अस्मिन् नगरे एकः सुनन्दसंज्ञकः विप्रः गीतायाः एकादशस्य अध्यायस्य जापकः वसति।  एकदा सः तीर्थयात्राकाले धर्मशालायां निवासं करोति। तदा रात्रौ कोपि राक्षसः धर्मशालायाः वासकानां भक्षणं करोति, किन्तु सुनन्दं जापकं धर्मशालातः बहिः निस्सारयति। कारणं, सः विश्वरूपसंज्ञकस्य एकादशाध्यायस्य जापकः अस्ति।

अस्मिन्नाख्याने प्रणीता नदी एवं सुनन्दविप्रः उल्लेखनीयौ स्तः।  कर्मकाण्डे प्रणीताप्रणयनं, अग्निप्रणयनमादि कृत्यानां सम्पादनं भवति। प्रणीतापात्रस्य विनियोजनं तीर्थादिभ्यः पुण्यजलं संगृहीत्वा तेन मण्डपस्य शोधनाय भवति। गृहकृत्ये शवस्य दाहसंस्कारे शवोपरि यज्ञपात्राणां विनियोजनं भवति। अन्ते शिरोपरि प्रणीतापात्रस्य स्थापनं भवति(आश्व.गृ.सू. ४.३.२४)। प्रणीताशब्दस्य विवेचने माश १२.९.३.८ कथयति - यदापः प्राणयन्। तस्मादापः प्रणीताः। तत् प्रणीतानां प्रणीतात्वम्। माश १०.१.४.११ कथनमस्ति - संचितेऽग्निः प्रणीयते प्रणीतादूर्ध्वं समिध आहुतय इति हूयन्ते। पद्मपुराणे यः एकादशाध्यायस्य माहात्म्यमस्ति, तत् एषां कथनानां व्याख्या अस्ति। यः सुनन्दः अस्ति, तस्य पूर्वरूपं कुनन्दः, आह्लादरहिता साधना अस्ति। अयं प्रतीयते यत् शतपथब्राह्मणे यः कथनमस्ति यत् अग्निसंचयनोपरि प्रणीताकर्म भवति, अयं संकेतमस्ति यत् अग्निचयनकृत्यं आह्लादरहिता साधना अस्ति। कर्मकाण्डे यत्र यत्र प्रणयनकृत्यमस्ति, यथा अग्निप्रणयनम्, तत्र तत्र अयं नियमं ध्यातव्यः। एकादशाध्याये यः चतुर्भुजरूपः दर्शितमस्ति, किं तत् आह्लादजनकः अस्ति, विचारणीयः। डा. फतहसिंह अनुसारेण चतुर्भुजरूपः विज्ञानमयकोशस्य प्रतीकः अस्ति, यत्र चक्षुषः सामर्थ्यस्य वर्धनं भवति।

पद्मपुराणे ६.१८५ प्रणीतायाः तटे मेघङ्करस्य नगरस्य उल्लेखं निरुद्देश्यं नास्ति। ऐतरेयब्राह्मणादिग्रन्थेषु मन्त्राणां संदर्भे शब्दद्वयोः व्याख्या अस्ति – प्रेति एवं एति। पृथिवी द्युलोकाय यः सर्वश्रेष्ठं भागं प्रेषयति, तत् प्रेतिः अस्ति। साधनारंभे अयं प्रेतिः धूम्ररूपा भवति। एते धूम्राः मेघेषु परिवर्तन्ते। तैत्तिरीयारण्यके २.१४.१ कथनमस्ति - तस्य वा एतस्य यज्ञस्य मेघो हविर्धानं विद्युदग्निर्वर्षꣳ हविस्तनयित्नुर्वषट्कारो यदवस्फूर्जति सोऽनुवषट्कारो वायुरात्माऽमावास्या स्विष्टकृत्-, इति । य एवं विद्वान्मेघे वर्षति विद्योतमाने स्तनयत्यवस्फूर्जति पवमाने वायावमावास्यायाꣳ स्वाध्यायमधीते तप एव तत्तप्यते ।

 

 

संदर्भाः -- संचितेऽग्निः प्रणीयते प्रणीतादूर्ध्वं समिध आहुतय इति हूयन्ते

 

प्रणीताप्रणयननिनयनम् – ततः प्रणीतापात्रं वेद्यां निधाय यजमानं मन्त्रं वाचयति। ततो अध्वर्युयजमानौ प्रतिदिशं प्रणीताजलेन कुशैर्मार्जयतः। प्राच्यां दिशि देवाम् इत्यादिमन्त्रेण प्राच्यां, दक्षिणस्याम् इत्यादिमन्त्रेण दक्षिणस्यां, ततो अप पस्पृश्य प्रतीच्यां इत्यादिमन्त्रेण प्रतीच्याम्, उदीच्याम् इत्यादिमन्त्रेणोदीच्याम्। ततो अध्वर्युः प्रणीताजलशेषं वेद्यां मन्त्रेण प्रक्षिपति। एतत् प्रणीताप्रणयननिनयनमित्युच्यते।

अग्निप्रणयनम् – अग्नेर्भस्मासीत्यादिमन्त्रेण गुग्गुलुसुगन्धितेजनं शुक्लामूर्णास्तुकां चोत्तरनाभ्यां निवपति। निहतानां संभाराणामाघारशेषेणाघारणं कृत्वा प्रदक्षिणमावृत्य अग्निं गृहीत्वा उत्तरवेदेः पुरस्तात् प्रत्यङ्मुखः संभारेषु प्रज्वलितमिध्मं यज्ञ प्रतितिष्ठेत्यृचा प्रतिष्ठापयति। अस्मिन् काले प्रतिप्रस्थाता दक्षिणवेदेः पूर्वार्धे शालामुखीयादाहृतमग्निं तूष्णीं प्रतिष्ठापयति। अध्वर्युः प्रणयनीयमिध्मं विस्रस्य परिसमुह्य पर्युक्ष्य परिस्तीर्य ज्वलयति। एवं प्रतिप्रस्थाता। आहवनीये प्रणयनीयेध्माधानप्रभृति एतदन्तं कर्म अग्निप्रणयनमित्युच्यते। श्रौतपदार्थनिर्वचनम्

प्रणीताग्न्यभिहोमः – अध्वर्युराहवनीये कांचित्समिधमाधाय यजमानान्वारब्धः स्मार्तवत्संस्कृताज्येन अग्निर्यज्ञं नयतु प्रजानन्नित्यादितिसृभिर्ऋग्भिः स्वाहाकारान्ताभिः स्रुवेण तिस्र आहुतीर्जुहोति। यथालिङ्गं यजमानस्य त्यागः। यजमानस्तेनैवाज्येन अग्निरन्नादो अन्नपतिरित्यादिभिस्त्रिभिर्यजुर्मन्त्रैः स्वाहान्तेस्तथैव जुहोति। अग्नये अन्नादायेदं वायवे प्राणद इदं० आदित्याय भूरिद इदं० इति क्रमेण यजमानस्य त्यागाः। एवं प्रतिप्रस्थाता समिधमाधाय सकृद् गृहीतेनाज्येन तूष्णीमेकामाहुतिमभिजुहोति। अयं प्रणीताग्न्यभिहोम इत्युच्यते।

 

प्रणीता वारणा ग्राह्या द्वादशाङ्गुलसम्मिता।

खातेन हस्ततलवदाकृत्या पद्मपत्रवत्॥

पत्नीसंयाजः - अथ प्रणीता दक्षिणतः परीत्य निनयति । युङ्क्ते वा एतद्यज्ञं यदेनं तनुते स यन्न निनयेत्पराङु हाविमुक्त एव यज्ञो यजमानं प्रक्षिणीयात्तथो ह यज्ञो यजमानं न प्रक्षिणाति तस्मात्प्रणीता दक्षिणतः परीत्य निनयति । स निनयति । कस्त्वा विमुञ्चति स त्वा विमुञ्चति कस्मै त्वा विमुञ्चति तस्मै विमुञ्चति पोषायेति तत्पुष्टिमुत्तमां यजमानायानिराह स येनैव प्रणयति तेन निनयति येन ह्येव योग्यं युञ्जन्ति तेन विमुञ्चन्ति – माश १.९.२.३२

संचितेऽग्निः प्रणीयते प्रणीतादूर्ध्वं समिध आहुतय इति हूयन्ते - माश १०.१.४.११

यद्यपः पिबति प्रणीतानां मेधमश्नाति यदि नाश्नाति पितृदेवत्यो भवति - माश ११.१.७.२

शीर्षंश्चमसं प्रणीताप्रणयनम्। - माश १२.५.२.७

सौत्रामणी - स होवाच। बिभेमि वै। प्रणयत मेति। कस्मात् भगवो बिभेषीति। असुरेभ्य इति। तथेति। तमापः प्राणयन्। तस्मात् यो वधत्रो भवति। स बिभ्यतं प्रणयति। यदापः प्राणयन्। तस्मादापः प्रणीताः। तत् प्रणीतानां प्रणीतात्वम्। प्रति ह तिष्ठति। य एवमेतत् प्रणीतानां प्रणीतात्वं वेद॥ माश १२.९.३.८

प्र सुन्वानायान्धस इति प्रवत्यो भवन्ति प्रणिनीषेण्यमिव ह्येतदहः – तांब्रा. ११.५.१

सप्तमेअहनि माध्यन्दिनपवमानः-  प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतम् इति प्रवत्यो भवन्ति प्रणिनीषेण्यमिव ह्येतदहः – तांब्रा १४.३.४

सर्वां यथाङ्गं विनिक्षिप्य चर्मणा प्रच्छाद्येममग्ने चमसं मा वि जिह्वर इति(ऋ. १०.१६.८) प्रणीताप्रणयनमनुमन्त्रयते - आश्व.गृ.सू. ४.३.२४

प्रणीताकाले वाग्यमनम् १ हविष्कृता विसर्गः शांश्रौसू. ४.७.२

मथित्वाग्नीन्विहृत्य प्रणीताः प्रणीय पूर्णाहुतीर्हुत्वा पृथगुदवसानीयाभिर्यजन्ते य आहिताग्नयो भवन्ति शांश्रौसू. १८.२४.२७