pratyusha

प्रत्यूष

टिप्पणी – वैदिक साहित्ये प्रत्यूष शब्दः प्रत्यक्ष रूपेण न प्रकटितमस्ति। पुराणेषु प्रत्यूषः सप्तम वसुः भवति। अपि च, उषा प्रकटन-पूर्व कालः प्रत्यूषकालः संज्ञा धारयति। भविष्य पुराणे ३.४.१७.८१ प्रत्यूषः दुर्वाससः अंशं कथ्यते। प्रति – उषा निरुक्ति अनुसारेण अयं संभवमस्ति यत्  अस्मिन् ब्रह्माण्डे  यः जीवस्य, ओषधस्य अपि प्रकटनमस्ति, तत्सर्वं उषायाः प्रकटनस्य पूर्वावस्था अस्ति। अस्मिन् अवस्थायां दुर्वासनायाः बाहुल्यं भवति। अतः एते सर्वे अपि प्रत्यूषाः सन्ति। अष्टौ वसवः मध्ये प्रत्यूषः सप्तम वसुः भवति एवं प्रभासः अष्टम वसुः अस्ति। प्रभासः अर्थात् अस्मिन् स्थितौ दुर्वासनायाः अस्तित्वं नास्ति। यावत् दुर्वासनायाः अस्तित्वं भवति, तावत् केवलं भासः संभवमस्ति, न प्र-भासः।

     प्रत्यूषस्य पुत्रस्य नाम देवलमस्ति। देव अर्थात् दैव। ब्रह्माण्डे जीवमात्रं दैवात् बद्धं अस्ति। कथं दैवं पारयित्वा स्वयंभू भवेयम्, एषा स्थितिः अष्टम वसु प्रभासस्य पुत्रे विश्वकर्मायां फलितं भवति। विश्वकर्मा स्थित्यां पुरुषार्थस्य प्राबल्यं भवति, न दैवस्य।