Prauga प्रउग

प्रउग

सोमयागे प्रातःसवने पंच स्तोत्राणि एवं पंच शस्त्राणि भवन्ति। स्तोत्रेषु एकं बहिष्पवमान स्तोत्रं एवं चत्वारि आज्यस्तोत्राणि भवन्ति। पंच शस्त्रेषु एकं प्रउग शस्त्रं एवं चत्वारि आज्य शस्त्राणि भवन्ति। प्रउग शस्त्रस्य कर्ता होता ऋत्विक् भवति। चत्वारि आज्यशस्त्रेषु प्रथमस्य कर्ता होता, द्वितीयस्य मैत्रावरुण, तृतीयस्य ब्राह्मणाच्छंसी एवं चतुर्थस्य अच्छावाकः भवति। - यज्ञतत्त्वप्रकाश (पृष्ठ ७६)

देवरथो वा एष यद्यज्ञस्तस्यैतावन्तरौ रश्मी यदाज्यप्रउगे तद्यदाज्येन पवमानमनुशंसति प्रउगेणाज्यं देवरथस्यैव तदन्तरौ रश्मी विहरत्यलोभाय तामनुकृतिम्मनुष्यरथस्यैवान्तरौ रश्मी विहरन्त्यलोभाय नास्य देवरथो लुभ्यति न मनुष्यरथो य एवं वेद- ऐ.ब्रा. २.३७

ग्रहोक्थं वा एतद्यत्प्रउगं – ऐ.ब्रा. ३.१

प्राणानां वा एतदुक्थं यत्प्रउगं सप्त देवताः शंसति सप्त वै शीर्षौ प्राणाः – ऐ.ब्रा. ३.३

नाकसदिष्टका - विराड् असि दक्षिणा दिग् रुद्रास् ते देवा अधिपतय इन्द्रो हेतीनाम् प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याम्̇ श्रयतु प्रउगम् उक्थम् अव्यथयत् स्तभ्नातु बृहत् साम प्रतिष्ठित्यै – तैत्तिरीय संहिता ४.४.२.१

आज्यम् शस्त्वा प्रउगम् शंसति ।
आत्मा वै यजमानस्य आज्यम् ।
प्राणाः प्रउगम् ।
तद् यद् आज्यम् शस्त्वा प्रउगम् शंसति ।
तथा ह यजमानः सर्वम् आयुर् अस्मिंल् लोक एत्य आप्नोत्य् अमृतत्वम् अक्षितिम् स्वर्गे लोके ।
पवमाने स्तुत आज्यम् शंसति ।
आज्ये स्तुते प्रउगम् ।
तद् एतत् पवमान उक्थम् एव यत् प्रउगम् ।
आज्यम् एव आज्यस्य उक्थम् ।
ते एतद् विहरति ।
यथा रथस्य अन्तरौ रश्मी व्यतिषजेद् एवम् तत् । - कौशीतकि ब्रा. १४.४

अग्नेर् अग्रे प्रातःसवनम् आसीत् ।
इन्द्रस्य माध्यंदिनम् सवनम् ।
विश्वेषाम् देवानाम् तृतीय सवनम् ।
सो अग्निर् अकामयत ।
स्यान् मे माध्यंदिने सवने अथो तृतीय सवन इति ।
इन्द्रो अकामयत ।
स्यान् मे प्रातः सवने अथो तृतीय सवन इति ।
विश्वे देवा अकामयन्त ।
स्यान् नो माध्यंदिने सवने अथो प्रातःसवन इति ।
ता अमुतो अर्वाच्यो देवतास् तृतीय सवनात् प्रातःसवनम् अभिप्रायुञ्जत ।
तद् यद् अभिप्रायुञ्जत ।
तत् प्रउगस्य प्रउगत्वम् ।
तस्माद् बह्व्यो देवताः प्रउगे शस्यन्ते । कौ.ब्रा. १४.५

गायत्रं प्रउगं कुर्यादित्याहुस्तेजो वै ब्रह्मवर्चसं गायत्री तेजस्वी ब्रह्मवर्चसी भवतीति । औष्णिह प्रउगं कुर्यादित्याहुरायुर्वा उष्णिगायुष्मान्भवतीति । आनुष्टुभं प्रउगं कुर्यादित्याहुः क्षत्त्रं वा अनुष्टुप्क्षत्त्रस्याऽऽप्त्या इति बार्हतं प्रउगं कुर्यादित्याहुः श्रीर्वै बृहती श्रीमान्भवतीति पाङ्क्तं प्रउगं कुयादित्याहुरन्नं वै पङ्क्तिरन्नवान्भवतीति त्रैष्टुभं प्रउगं कुर्यादित्याहुर्वीर्यं वै त्रिष्टुब्वीर्यवान्भवतीति जागतं प्रउगं कुर्यादित्याहुर्जागता वै पशवः पशुमान्भवतीति, इति । तदु गायत्रमेव कुर्याद्ब्रह्म वै गायत्री ब्रह्मे तदहर्ब्रह्मणैव तद्ब्रह्म प्रतिपद्यते, इति । तदु माधुच्छन्दसम्, इति । मधु ह स्म वा ऋषिभ्यो मधुच्छन्दाश्छन्दति तन्मधुच्छन्दसो मधुच्छन्दस्त्वम्, इति । - ऐ.आ. १.१.३

There is प्रउग, "yoke". It also occurs in Rk-saMhita. It is generally supposed to be a prakritic pronunciation of "prayuga". - तितउ