prishtha पृष्ठ
पृष्ठ
१. अन्नं पशवः पृष्ठानि । तां १६,१५,८ । ।
२. आत्मा वै पृष्ठानि । कौ २५,१२; तां २२,९,४ ।।
३. एतानि खलु वै सामानि यत्पृष्ठानि । तै १,८,८,३ ।।
४. एषा ह वा उत्तरावती श्रीर्यत्पृष्ठानि । जै २,४२५ ।
५. ऐन्द्राणि पृष्ठानि । काठ ३४,१६ ।।
६. ओज एव ( ओजो वै [तैसं ७,३,७,३]) वीर्यं पृष्ठानि । तैसं ७,३,५,३; जै २,२९७; ३२९ ।
७. चक्रियौ (+वा एते यज्ञस्य यत् [मै.J) पृष्ठानि । मै ४,७,३; क ४५,८।
८. तदाहुर्न्नानालोकानि पृष्ठानि । तां १६, १५,९ ।
९. तेजो ब्रह्मवर्च्चसं पृष्ठानि । तां १६,१५,७।
१०. ते देवा एतं संवत्सरश्रममपश्यंस्तेनैनदभ्याश्राम्यंस्तदूर्ध्वमुपश्रयत, तद् दिविस्पृष्टमतिष्ठत् यद्दिविस्पृष्टमतिष्ठत् तत्स्पृष्टानां स्पृष्टत्वं, स्पृष्टानि ह वै नामैतानि, तानि पृष्ठानीति परोक्षमाख्यायन्ते। जै ३, ११७ ।
११. देवता एव पृष्ठैरवरुन्धते । तैसं ७,३,६,१ ।
१२. पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि । काठ ३२,६ ।।
१३. पिता वै वामदेव्यं पुत्राः पृष्ठानि । तां ७,९,१।
१४. पृष्ठानि वा असृज्यन्त तैर्द्देवाः स्वर्गं लोकमायन् । तां ७,७,१७ ।
१५. पृष्ठानि वै यज्ञस्य दोहः । काठ ३३,८ ।
१६. पृष्ठैरेवामुष्मिँल्लोक ऋध्नुवन्ति । तैसं ७,३,५,२ ।
१७. पृष्ठैर्वै देवाः स्वर्गं लोकमस्पृक्षन् । कौ २४,८ ।
१८. य उ ह वा एषां लोकानां श्रेष्ठास्ते पृष्ठानि । जै १,२१९ ।
१९. यज्ञो वै पृष्ठानि । काठ ३२,६ ।।
२०. रथन्तरं वै पृष्ठानामग्रं ज्यैष्ठ्यम् । जै २,२२७ ।
२१. वर्ष्म (+वीर्यं [तां.) वै पृष्ठानि । जै २,३३७ तां ४,८,७; १८,८,८ ।
२२. वीर्यं पृष्ठम् । जै १,३०९ ।।
*तस्य बृहत् पृष्ठं भवति। इन्द्रो वै बृहत्। श्रीः पृष्ठानि। इन्द्रम् एव तच् छ्रिया समृद्धयन्ति। - जै २.८७
२३. श्रीः पृष्ठानि । ऐ ६,५; गो २,५,११; ।
२४. श्रीर्वै (+वर्ष्म । जै २, २९७; ३०३; ३०४;३१४ ]) पृष्ठानि । ऐ ६, ५; गो २, ५,11; जै २,३३७ ।।
२५. श्रीर्हि पृष्ठम् । जै १,३१३ ।
२६. षट् (षड् वै [मै १,५,६J; सप्त [माश..J) पृष्ठानि । तैसं ७,२,१,१, माश ९,५,२,८ ।
२७. सर्वाणि हि पृष्ठानीन्द्रस्य निष्केवल्यानि । तां ७,८,५।।
२८. स्वराणि पृष्ठानि भवन्ति । कौ २४,८ ।
२९. स्वर्गो (+वै [काठ ३३, ८; जै २, २९७] ) लोकः पृष्ठानि । तां १६, १५, ६ ॥
अन्वञ्च इवाङ्गिरसः सर्वैः स्तोमैः पृष्ठैर्गुरुभिः सामभिः स्वर्गं लोकमस्पृशन् – माश १२.२.२.११
अन्नं पृष्ठानि - तां १९.९.४
पृष्ठम् आग्नीध्रम् – मै ४.८.८, ४.५.९
इन्द्रियं वै वीर्यं पृष्ठानि – जै. १.२५४
ऊर्ध्वया त्वा दिशा बृहस्पतिना देवतया पाङ्क्तेन च्छन्दसाग्नेः पृष्ठमुपदधामि- काठ २२.५
ऋतवो वै पृष्ठानि – काठ ३३.८, जै १.३४८, २.१०७, २.३०३, २.३१४, २.३१८, २.३५०, ३.१५४, तै ३.९.९.१, माश १३.३.२.१
अथो यथा पिता मातैवं बृहद्रथन्तरे यथा पुत्रा एवं पृष्ठानि । जै २.१८८
पशवः पृष्ठानि – जै ३.३३७
पशवः पृष्ठ्यानि – कौ २१.५
पृष्ठानि वै पशवः – जै २.८४
दिशो वै पृष्ठानि - जै २.२१
पृष्ठानि हि दिश इति – जै २.२१५
तेजो वै पृष्ठानि – तैसं ५.५.८.१
पृष्ठोक्थ- देव- ११६ इ. ।।
पृष्ठ्य ( षडह-)-- १. अग्निर्वा एष वैश्वानरो यत्पृष्ठयषडहः । जैमि ३, १५४ ।।
२. अयमेव स्पृष्ट्यो योऽयं (वायुः ) पवते । एतेन हीदं सर्व स्पृष्टम् । स्पृष्ट्यो ह वै नामैषः । तं पृष्ठय इति परोक्षमाचक्षते । सर्वान् कामान् स्पृशति य एवं वेद । जै २.३१।
३. आत्मा वै पृष्ठयः षडहः, प्रजा स्वरसामानः । जैमि २,३८८ ।।
४. पिता वा अभिप्लवः पुत्रः पृष्ठ्यः । गो १,४,१७ ।
५. संवत्सरो वै पृष्ठ्यः षडहः । जै २,३०५ ।।
६. सर्वैः पृष्ठ्यैः ( आङ्गिरसाः ) स्वर्गं लोकमभ्यस्पृशन्त यदभ्यस्पृशन्त तस्मात्स्पृश्यस्तं वा एतं स्पृश्यं सन्तं पृष्ठ्य इत्याचक्षते परोक्षेण । गो १,४,२३ ।
७. श्रीः पृष्ठ्यानि । कौ २१,१ ।।
८. स्वर्गों वै लोकः पृष्ठ्यः षडहः । जै २, ३१३ ॥
ब्रह्माभिप्लवः क्षत्रं पृष्ठ्यः - जै २.३१
ब्रह्माभिप्लवः, क्षत्रं पृष्ठ्यः – जै २.४२९
ऋतवो वै पृष्ठ्यः षडहः – जै ३.३१८
एष वाव देवयानः पन्था यत् पृष्ठ्य़ः षडहः – जै. २.४२३
पशवः पृष्ठ्यानि – कौ २१.५