prishat

 

पृषदाज्य

अथ पृषदाज्यं गृह्णाति । द्वयं वा इदं सर्पिश्चैव दधि च द्वन्द्वं वै मिथुनं प्रजननं मिथुनमेवैतत्प्रजननं क्रियते। तेनानुयाजेषु चरति । पशवो वा अनुयाजाः पयः पृषदाज्यं तत्पशुष्वेवैतत्पयो दधाति तदिदं पशुषु पयो हितं – माश ३.८.४.[७] , काश ४,८,४,४

 प्राणो हि पृषदाज्यमन्नं हि पृषदाज्यमन्नं हि प्राणः । तेन पुरस्तादनुयाजेषु चरति । – माश ३.८.४.[८]

५. स हृदयमेवाग्रेऽभिघारयति । आत्मा वै मनो हृदयं प्राणः पृषदाज्यमात्मन्येवैतन्मनसि प्राणं दधाति तथैतज्जीवमेव देवानां हविर्भवत्यमृतममृतानाम्। माश ३,८,३,८

६. प्राणापानौ वा एतौ पशूनां यत् पृषदाज्यम् आत्मा वपा पृषदाज्यम् अभिघार्य वपाम् अभि घारयत्य् आत्मन्न् एव पशूनाम् प्राणापानौ दधाति । तैसं ६,३,९,६

७. प्राणापानौ वै पृषदाज्यं, आत्मा हृदयम् , यत्पृषदाज्येन हृदयमनक्ति मध्यतो वा एतत् पशोः प्राणापानौ दधाति। मै ३,१०,२;  ।।

प्राणापानौ वै पृषदाज्यं, आत्मा हवि , र्यत्पृषदाज्यं जुहोति , आत्मन् वा एतत् पशोः प्राणापानौ दधाति – मै ३.१०.४

८. प्राणो वै पृषदाज्यम् । प्राणो वै  एतस्य स्कन्दति यस्य पृषदाज्यम्̇ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति । हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति । तैसं ३,२,६,२ माश ३, ८,४,८ ॥

यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात्  - तैसं ३.२.६.२

पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यम्̇ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति - तैसं ३.२.६.२

प्राणो वै पृषदाज्यम् प्राणो वै  एतस्य स्कन्दति यस्य पृषदाज्यम्̇ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति तैसं ३.२.६.२

वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यम्̇ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् - तैसं ३.२.६.२

 पशवो वै पृषदाज्यं , नानारूपा वै पशवो , तस्मान् नानारूपमाग्नेयं घृतमैन्द्रं दध्यैन्द्राग्नं पृषदाज्यं देवतया , प्राणापानौ वा इन्द्राग्नी , मिथुनं प्राणापानौ – मै १.१०.७

पशवो वै पृषदाज्यं नानारूपाः पशवस्तस्मान्नानारूपमाग्नेयं घृतमैन्द्रं दध्यैन्द्राग्नं पृषदाज्यं देवतया प्राणापानौ वा इन्द्राग्नी मिथुनं प्राणापानौ – काठ ३६.२

पशुभिर्वा एष व्यृध्यते यस्य सोमः स्कन्दति, व्यस्य यज्ञश्छिद्यते, पशवो वै पृषदाज्यं , यत्पृषदाज्यं जुहोति, पशुभिरेवैनं सम्यञ्चं दधाति, मनो ज्योतिर्जुषतामाज्यस्य विछिन्नं यज्ञं समिमं दधात्व् इति – मै ४.८.९

राजसूय वैश्वदेव -- पृषदाज्यं गृह्णाति । पशवो वै पृषदाज्यम् । पशूनेवावरुन्धे । पञ्चगृहीतं भवति । पाङ्क्ता हि पशवः । बहुरूपं भवति । बहुरूपा हि पशवः समृद्ध्यै । - तैब्रा १.६.३.२

जुहूवद् वसाहोमहवनीम् उपभृद्वत् पृषदाज्यधानीम् – आपश्रौ. ७.८.७

तेजसे मे वर्चोदा वर्चसे पवस्वेत्त्याज्यानि । पशुभ्यो मे वर्चोदा वर्चसे पवस्वेति पृषदाज्यम् । आपश्रौ १२.१८.२०

 

पृषती (गो-)

१.     पृषती गौर् धेनुर्दक्षिणा, सा हि वैश्वदेवी , अथ यद् वैश्वदेवीष्टि , र्वैश्वदेवीर्वा इमाः प्रजा, स्ता एवावारुन्द्ध, ता आद्या अकृत। मै २,३,२

२.     वैश्वदेवः कार्यो वैश्वदेवा हि सजाताः पृषत्याः पृषद्वत्साया दुग्धे भवति वैश्वदेवी हि पृषती सर्वेभ्यस्सजातेभ्य आज्यँ समाहरन्ति वैश्वदेवत्वाय – काठ १२.२

पृषत

१. पृषतो वैश्वदेवः । काठ ४७,७।।

२. विश्वेभ्यो देवेभ्यः पृषतान् ( आलभते )। मै ३,१४,९।।