Praana

प्राण

१. अक्षीयं वा अमृतमेते प्राणाः । काश ३, १, ११,६ ।।

२. अथ बृहती । यो ऽयं प्राङ् प्राणः । एष एव सः । ....एतेन द्वयं प्राणेन करोति रेतश्च सिञ्चति मेहति च । जै १, २५४ ।।

*स योऽयं मध्ये प्राणः । एष एवेन्द्रस्तानेष प्राणान्मध्यत इन्द्रियेणैन्द्ध यदैन्द्ध तस्मादिन्ध इन्धो ह वै तमिन्द्र इत्याचक्षते परोऽक्षं…..माश ६.१.१.[२]

३. अथ यत्प्राणा अश्रयन्त तस्मादु प्राणाः श्रियः । माश ६, १, १, ४ ।।

४. सोम हविष्पङ्क्ति यागः -- अथ वै हविष् पङ्क्तिः प्राण एव । तस्माद् येन एव मैत्रावरुणः प्रेष्यति तेन होता यजति । समानो ह्य् अयम् प्राणः ।। कौ १३, २।।

५. अथैषा मानुषी विराड् यदिमे पुरुषे प्राणाः ।.... तस्या एतस्या अन्नमेवापिधानम् । जै १, २४६

६. अधरः प्राण उत्तरेषां प्राणानामर्धभाक् । क ३१,१३ ।

७. अधिपतिना प्राणाय प्राणं जिन्व, धरुणेनापानायापानं जिन्व । मै २, ८, ८

*यदेव पुरुषेऽन्नं तदन्नं या आपस्तत्पानमस्थीन्येव श्रीस्तद्धि परिश्रितां रूपं मज्जानो ज्योतिस्तद्धि यजुष्मतीनां रूपं प्राणोऽमृतं तद्ध्यग्नेरूपं प्राणोऽग्निः प्राणोऽमृतमित्यु वा आहुः – माश १०.२.६.[१८]

८. इह प्राण इति हैक उपासते प्राणोऽग्निः प्राणोऽमृतमिति वदन्तो न तथा विद्यादध्रुवं वै तद्यत्प्राणः । माश १०, २, ६, १९

*किं छन्दः का देवता यस्मादिदं प्राणाद्रेतः सिच्यत इत्यतिच्छन्दाश्छन्दः प्रजापतिर्देवता - .....किं छन्दः का देवता योऽयमवाङ्प्राण इति यज्ञायज्ञियं छन्दो वैश्वानरो देवता - १०.३.२.[८]

* स्वांकृतो ऽसीत्य् आह।     प्राणम् एव स्वम् अकृत – तैसं ६.४.५.४

९. उर्व् अन्तरिक्षम् अन्व् इहीत्य् आह ।     अन्तरिक्षदेवत्यो हि प्राणः।     स्वाहा त्वा सुभवः सूर्यायेत्य् आह ।     प्राणा वै स्वभवसो देवास् ,     तेष्व् एव परोऽक्षं जुहोति । तैसं ६,४,५,५

१०. अन्नं वै प्राणानुपसृजति । काठसंक ७०:५।।

११. अन्वङ् वै पुरुषं प्राणो यदा वै प्राणस्तिर्यङ् भवत्यथ प्रमीयते । काठ २३,२।।

१२. अयं वाव यः पवत एष प्राणः , आभ्यो वा एष दिग्भ्योऽधिपवते । मै २,३,५ (तु. काठ २६,१०; क ४१, ८ } ।

१३. त्रयोऽश्वा द्वौ सव्यष्टृसारथी ते पञ्चप्राणा यो वै प्राणः स वातः....अयं वै प्राणो यो ऽ यं ( वायुः ) पवते, सो ऽ यम् ( वायुः ) एक इवैव पवते, सोऽ यं पुरुषे ऽन्तःप्रविष्टो दशधा विहितः .... तदस्मिन् दश प्राणान् कृत्स्नमेवायुर् दधाति । माश ५, २, ४, १०

*शिरो वा एतद् यज्ञस्य यद् धविर्धानम् प्राणा उपरवाः ।     हविर्धाने खायन्ते ।     तस्माच् छीर्षन् प्राणाः ।     अधस्तात् खायन्ते ।     तस्माद् अधस्ताच् छीर्ष्णः प्राणाः । - तैसं ६.२.११.१

*सं तृणत्ति ।     तस्मात् संतृण्णा अन्तरतः प्राणाः ।     न सम् भिनत्ति ।     तस्माद् असम्भिन्नाः प्राणाः ।      अपो ऽव नयति ।     तस्माद् आर्द्रा अन्तरतः प्राणाः । - तैसं ६.२.११.२

*शिरो वा एतद् यज्ञस्य यद् धविर्धानम् ।     प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ता मुखम् आहवनीयो नासिकोत्तरवेदिर् उदरम्̇ सदः । - तैसं ६.२.११.४

१४. प्राणा वा एते यद् द्विदेवत्याः ।     अरिक्तानि पात्राणि सादयति।     तस्माद् अरिक्ता अन्तरतः प्राणा । तैसं ६, ४,९, ५

१५. अर्द्धभाग्वै मनः प्राणानाम् । ष १, ५।।

१६. अथ षोडशगृहीतं गृह्णीते । अष्टौ प्राणा अष्टावङ्गान्येतामभिसम्पदं समान्यां स्रुचि गृह्णीते समाने ह्येवात्मन्नङ्गानि च प्राणाश्च भवन्ति नाना जुहोत्यङ्गेभ्यश्च तत्प्राणेभ्यश्च विधृतिं करोति। माश ९, २,२, ६ ।।

१७.   आत्मा वै लोकम्पृणा प्राणो ऽनुष्टुप् तस्मात् प्राणः सर्वाण्य् अङ्गान्य् अनु चरति। तैसं ५, ५, ६, २

१८. आयत इव ह्ययमवाङ प्राणः । ष २, २। ।

१९. इदं शरीरं परिगृह्योत्थापयति ( प्राणः ), तस्मादेतदेवोक्थमुपासीतेति । शांआ ५, ३, कौउ ३.३

*प्राणा वा उपरवाः, शिरो हविर्धानं , शीर्षन् वा इमे प्राणा, स्तस्माद्धविर्धाने ,….. संतृण्णा हि परः प्राणा , विधृता उपरिष्टात् , विधृता हीम उपरिष्टात् प्राणाः, पूर्वार्धे वा इमे मुखस्य प्राणा , एतत् खलु वै हविर्धानस्य पूर्वार्धं यद् दक्षिणं हविर्धानं – मै ३.८.८

२०. इम उदन्वन्तः प्राणाः ....इमे लोमशाः प्राणाः । मै ३, ८, ८

२१. अयं वै त्रिवृद् अयं पञ्चदशो ऽयं सप्तदशो ऽयम् एकविंशः। इमान्वै प्राणानग्निरन्वायत्तः । जै २,१३६ ।।

२२. दीक्षितधर्माः -- इमे वै प्राणाः । मनोजाता मनोयुजो दक्षक्रतवो वागेवाग्निः प्राणोदानौ मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वे देवा एतासु हैवास्यैतद्देवतासु हुतम्भवति। माश ३.२, २,१३

*प्राण एव प्रायणीयो ऽतिरात्रः। प्राणो हीदं सर्वं प्राणेत। तद् यत् प्राणेत तस्मात् प्राणः। - जै २.५७

*यत् प्राणाश् छन्दांसि छन्दांसि स्तोमा इत्य् आहुः, कथं यजमानः प्राणैश् छन्दांस्य् अप्येति। - जै २.६०

२३. इम एव दश प्राणा दशरात्रः।....ते एते दश प्राणा दश स्तोमा दश छन्दांसि। इमे ह सप्त मुख्याः प्राणा द्वाववाञ्चौ, नाभ्यां दशमः । जै २, ५८ ।।

२४. उद्यत इव ह्ययं प्राणः । ष २, ३ ।

प्राण एव यजुः प्राणो हि यन्नेवेदं सर्वं जनयति प्राणं यन्तमिदमनु प्रजायते तस्मात्प्राण एव यजुः – माश १०.३.५.[४]

*अयमेवाकाशो जूः योऽयमन्तरात्मन्नाकाश एतं ह्याकाशमनु जवते तदेतद्यजुः प्राणश्चाकाशश्च यच्च जूश्च तस्माद्यजुः प्राण एव यत्प्राणो ह्येति - १०.३.५.[५]

२५ प्राणो वै यजुरुपांश्वायतनो वै प्राणः..... तस्य ह यो निरुक्तमाविर्भावं वेद आविर्भवति कीर्त्या यशसोपांशु यजुषाध्वर्युर्ग्रहं गृह्णाति। माश १०, ३, ५, १५ ।।

*द्विषाम्णी गायत्री। यो ऽयं अवाङ् प्राण एष एव सः। तस्माद् एतेन द्वयं प्राणेन करोति भस्म च करोति वातं च॥ द्विषाम्णी बृहती। यो ऽयं प्राङ् प्राण एष एव सः। तस्माद् एतेन द्वयं प्राणेन करोति रेतश् च सिञ्चति मेहति च॥ एकसाम्नी त्रिष्टुप्। नाभिर् एव सा। तस्याम् एकं साम। तस्माद् एतेनैकम् एव प्राणेन करोति यद् एव प्राणान् उदन्तो ऽनूदनिति॥जै १.१२७

२६. तस्माद् उभयतः प्राणाः प्रजा ऊर्ध्वाश्चावाचीश्च । जै १, १६६

२७. उभयतो वैश्वानरो ह्ययं प्राणो ऽयं वाव वैश्वानरो यो ऽयमवाङ प्राणः । मै ४, ६, ६

२८. पूर्ण एष यत् संवत्सरः। तद् यत् पौर्णमासीर् उत्सृजन्ते ऽरिष्टया एव। ऊनाद् वै रेतस् सिच्यत, ऊनात् प्रजाः प्रजायन्ते। पूर्ण एष यत् संवत्सरः। तद् यत् पौर्णमासीर् उत्सृजन्ते, रेत एव तल् लोकं कुर्वन्ति, प्रजननाय। ऊनाद् वै प्राणा ईरते। प्रजापतिर् एष यत् संवत्सरः। तस्यैते प्राणा यत् पौर्णमास्यः। तद् यत् पौर्णमासीर् उत्सृजन्ते, प्रजापतेर् एव तत् प्राणान् उत्सृजन्ते।। जै २, ३९३ । ।

२९. नाभिर् वा एषा यज्ञस्य यद् होता ।     ऊर्ध्वः खलु वै नाभ्यै प्राणो ऽवाङ् अपानः ।
 यद् अध्वर्युः प्रत्यङ् होतारम् अतिसर्पेद् अपाने प्राणं दध्यात् प्रमायुकः स्यात् । । तैसं ६, ३, १, ५

३०. ऋजुम् आ घारयत्य् ऋजुर् इव हि प्राणः , संततम् आ घारयति प्राणानाम् अन्नाद्यस्य संतत्यै । अथो रक्षसाम् अपहत्यै । तैसं २, ५, ११, ७

३१. दिग्भ्य एवान्नाद्यम्      सम्भृत्य तेज आत्मन् दधते    ।  तस्माद् एकः प्राणः सर्वाण्य् अङ्गान्य् अवति । । तैसं ७, ५, ८, ५

३२. एक पुत्र इति चैकितानेयः । एको ह्येवैष पुत्रो यत्प्राणः । स उ एव द्विपुत्र इति द्वौ हि प्राणापानौ । स उ एव त्रिपुत्र इति । त्रयो हि प्राणो sपानो व्यानः । स उ एव चतुष्पुत्र इति चत्वारो हि प्राणो ऽपानो व्यानस्समानः। स उ एव पञ्चपुत्र इति पञ्च हि प्राणोऽपानो व्यानस्समानोऽवानः । स उ एव षट्पुत्र इति षड़ढि प्राणो ऽ पानो व्यानस्समानो ऽवान उदानः । स उ एव सप्तपुत्र इति सप्त हीमे शीर्षण्याः प्राणाः । स उ एव नवपुत्र इति सप्त हि शीर्षण्याः प्राणा द्वाववाञ्चौ । स उ एव दशपुत्र इति सप्त शीर्षण्याः प्राणा द्वाववाञ्चौ नाभ्यां दशमः । स उ एवं बहुपुत्र इति । एतस्य हीयं सर्वा प्रजाः । जैउ २,२,३,२-११ ।।

३३. यद् एकपात्रा गृह्यन्ते तस्माद् एको ऽन्तरतः प्राणो द्विपात्त्रा हूयन्ते तस्माद् द्वौद्वौ बहिष्टात् प्राणाः । तैसं ६,४,९,३

*वाग्देवत्यं वै त्रिरात्रस्य प्रथमम् अहः, प्राणदेवत्यं द्वितीयं, चक्षुर्देवत्यं तृतीयम्।..... एको ह्येवैष यत्प्राणो ऽपानो व्यान इति ।- जै २.२४७

३५. वाग् वा अनुष्टुप्, प्राणो गायत्री। एतद् वै वाचस्सत्यं यत् प्राणः। सैषा वाक् सत्यवती।। जै २,४२५ ।।

*पुरुषो वाव संवत्सरस् तस्य प्राण एव प्रायणीयो ऽतिरात्रः प्राणेन हि प्रयन्ति वाग् आरम्भणीयम् अहः   – गो १.५.४

*पुरुषो वाव संवत्सरः पुरुष इत्य् एकम् संवत्सर इत्य् एकम् अत्र तत् समम्। द्वे अहोरात्रे संवत्सरस्य, द्वाव् इमौ पुरुषे प्राणाव् इति अत्र तत् समम्। त्रयो वा ऋतवः संवत्सरस्य, त्रय इमे पुरुषे प्राणा इति अत्र तत् समम्। षड् वा ऋतवः संवत्सरस्य
षड् इमे पुरुषे प्राणा इति अत्र तत्समम्। सप्त वा ऋतवः संवत्सरस्य सप्तेमे पुरुषे प्राणा इति अत्र तत् समम्। द्वादश मासाः संवत्सरस्य द्वादशेमे पुरुषे प्राणा इति अत्र तत् समम्। त्रयोदश मासाः संवत्सरस्य त्रयोदशेमे पुरुषे प्राणा इति अत्र तत् समम्। - गो १.५.५

३६. त्रीणि च ह वै शतानि षष्टिश् च संवत्सरस्याहोरात्राणीति एतावन्त एव पुरुषस्य प्राणा इति अत्र तत् समम्। गो १,५,५।।

३७. अथ माध्यंदिनस्य पवमानस्य गायत्री। यो ऽयम् अवाङ् प्राण एष एव सः। तस्यां द्वे सामनी। तस्माद् एतेन द्वयं प्राणेन करोति भस्म च करोति वातं च ।....अथ बृहती। यो ऽयं प्राङ् प्राण एष एव सः। तस्यां द्वे सामनी। तस्माद् एतेन द्वयं प्राणेन करोति रेतश् च सिञ्चति मेहति च। जै १,२५४ ।।

३८. सप्त वै मुख्याः प्राणाः। एते वा अपहतपाप्मानः प्राणा ये मुख्याः । जै २,३४७ ।।

३९. एष ( योऽयं दक्षिणे ऽक्षन्पुरुषो मृत्युनामा सः ) उ एव प्राणः । एष हीमाः सर्वाः प्रजाः प्रणयति तस्यैते प्राणाः स्वाः स यदा स्वपित्यथैनमेते प्राणाः स्वा अपियन्ति तस्मात्स्वाप्ययः स्वाप्ययो ह वै तं स्वप्न इत्याचक्षते परोऽक्षम् । माश १०,५,२,१४ ।।

४०. प्राणो वा अङ्गानां रसः प्राणो हि वा अङ्गानां रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यत्येष हि वा अङ्गानां रसः एष  उ एव बृहस्पतिः । माश १४,४,१,२२ ।।

४१. एष ( प्राणः ) उऽ एव ब्रह्मणस्पतिः । वाग्वै ब्रह्म तस्या एष पतिस्तस्माद् ह ब्रह्मणस्पतिः । माश १४,४,१,२३ ।।

*एष उ वा उद्गीथः। प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः - १४.४.१.२५

४२. एष ह वै संप्रति प्राणो यन्मज्जैतद्रेतो न ह वा ऋते प्राणाद्रेतः सिच्यते, यद्वा ऋते प्राणाद्  रेतः सिच्यते, पूयेन्न संभवेत् । ऐआ ३,२,२ । ।

४३. एषा हीदं देवता सर्वं प्राणयत । तद् यत् प्राणयत तस्मात्प्राणः । जै ३,३७७ । । ४४. अनूयाजकथनम्-- ऐन्द्रः खलु वै देवतया प्राण ऐन्द्रो ऽपान ऐन्द्रः प्राणो अङ्गेअङ्गे नि देध्यद् इत्य् आह प्राणापानाव् एव पशुषु दधाति । तैसं ६,३,११,२

४५. यद् एकैवेदं देवता सर्वम् अभवद् द्वादशाह एव, कतमा सा देवतेति । प्राण इति ब्रूयात् । प्राणो वा इदं सर्वमभवत् । जै ३,३७७ ।।

४६. कतमे ते रुद्रा इति, दश पुरुषे प्राणा इति होवाच । आत्मैकादशस्ते यदोत्क्रामन्तो यन्ति, अथ रोदयन्ति, तस्माद् रुद्रा इति । जै २,७७ ( तु. माश ११,६,३,७ )।

कतमे रुद्रा इति। दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्मान्मर्त्याच्छरीरादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति – माश ११.६.३.[७]

४७. कतमैका देवतेति, प्राण इति । जै २,७७ । ।

४८. किं छन्दः का देवता यस्मादिदं प्राणाद्रेतः सिच्यत इत्यतिच्छन्दाश्छन्दः प्रजापतिर्देवता ।१०। किं छन्दः का देवता योऽयमवाङ्प्राण इति यज्ञायज्ञियं छन्दो वैश्वानरो देवता - १०.३.२.[८]

४९. प्रायणीयः -- यद्वेवैनं विकृषति । एतद्वा अस्मिन्देवाः संस्करिष्यन्तः पुरस्तात्प्राणानदधुस्तथैवास्मिन्नयमेतत्संस्करिष्यन्पुरस्तात्प्राणान्दधाति लेखा भवन्ति लेखासु हीमे प्राणाः । चतस्रः सीता यजुषा कृषति । तद्य इमे शीर्षंश्चत्वारो निरुक्ताः प्राणास्तानस्मिन्नेतद्दधाति तद्वै यजुषाऽद्धा वै तद्यद्यजुरद्धो तद्यदिमे शीर्षन्प्राणाः । यद्वेवात्मानं विकृषति । य एवेमेऽन्तरात्मन्प्राणास्तानस्मिन्नेतद्दधाति तूष्णीं को हि तद्वेद यावन्त इमेऽन्तरात्मन्प्राणाः - माश ७,२,२,२०

५०. चत्वारो वा इमे शीर्षन् प्राणाः तस्माच्चत्वारः संतृण्णाः परः, संतृण्णा हि परः प्राणा। मै ३,८,८ (तु. काठ २५,९; क ४०,२)।

५१. किं तद् यज्ञे क्रियते यस्माज् जीवत एवान्ये प्राणा अपक्रामन्ति न प्राण इति। स ब्रूयाद् यस्मात् स्व आयतने गायत्रीं गायति तस्माद् यावज् जीवति तावत् प्राणो नापक्रामतीति। .... गायत्र्यां प्रस्तुतायां यस्य कामयेत तस्य प्राणेन प्राणं ध्यायेत्। जै १,२६९

*एष इमं लोकमभ्यार्चत्पुरुषरूपेण य एष तपति प्राणो वाव तदभ्यार्चत्प्राणो ह्येष य एष तपति ...... प्राणो वै गृत्सोऽपानो मदः स यत्प्राणो गृत्सोऽपानो मदस्तस्माद्गृत्समदस्तस्माद्गृत्समद इत्याचक्षत एतमेव सन्तम्, इति । - ऐआ २.२.१

५२. तं ( प्राणम् ) यद् देवा अब्रुवन्नयं वै नः सर्वेषां वसिष्ठ इति तस्माद् वसिष्ठस्तस्माद् वसिष्ठ  इत्याचक्षत एतमेव ( प्राणम् ) सन्तम् । ऐआ २,२,२।।

५३. त इमे सप्तर्षयः प्रतिहिताः प्राणा एव । जै २,२७ ।।

*गायत्रीं गायति प्राणो वै गायत्रो गायत्रं शिर एव। तदायतनो वै प्राणः। यच् छिरस् स्व एव तद् आयतने प्राणं दधाति॥….अवान्ये प्राणाः क्रामन्ति न प्राणः॥जै 1.268

*गायत्रीं गायति प्राणो वै गायत्रो गायत्रं शिर एव। तदायतनो वै प्राणः। यच् छिरस् स्व एव तद् आयतने प्राणं दधाति॥ - जै १.२६८

*रेतो वा एतद् अग्रे प्रविशति यद् गायत्रम्। ततो ऽन्यान्य् अंगानि विक्रियन्ते। प्राणो वा एष प्रविशति यद् गायत्रम्। तम् अन्यान्य् अंगान्य् उपसंसीदन्ति। स इमान् प्राणान् आकाशान् अभिनिर्मन्थति। - जै २.१८

५४. तदायतनो वै प्राणो यच्छिरः (+तस्मात् त्रिवृतैव शीर्ष्णा प्रतिपद्यम् । जै २, १८])। जै १, २६८, २,१८ ।

५५. संवत्सरस्य वा एतौ दंष्ट्रौ यदतिरात्रौ तयोर्न स्वप्तव्यं संवत्सरस्य दंष्ट्रयोरात्मानं नेदपिदधानीति  । तदाहुः कोऽस्वप्तुमर्हति यद्वाव प्राणो +जागार तदेव जागरितमिति । तां १०, ४, ४ ।।

५६. तद्यत्रैतदधीते वा भाषते वा, वाचि तदा प्राणो भवति, वाक् तदा प्राण रेळ्ह्यथ यत्र तूष्णीं  वा भवति, स्वपिति वा, प्राणे तदा वाग्भवति, प्राणस्तदा वाचं रेल्हि । ताव- न्योन्यं रीह्ळो वाग्वै माता प्राणः पुत्रः, इति । ऐआ ३, १, ६ ।।

५७. अथ तां स्वरेणानुष्टुभम् अभ्यारोहति। प्राणस् स्वरो वाग् अनुष्टुप्। तद्वै दैव्यं

मिथुनं यद् वाक् च प्राणश्च । जै १, ३०६

५८. तं ( प्राणम् ) पाप्मा नाऽ न्वसृज्यत । न ह्येतेन प्राणेन पापं वदति न पापं ध्यायति न पापं पश्यति न पापं शृणोति न पापं गन्धमपानिति । तेना ऽपहत्य मृत्युमपहत्य पाप्मानं ( देवाः ) स्वर्गं लोकमायन् । जैउ २, १,१, १९-२० ।

५९. तं ( पशुं संज्ञप्तम् ) प्राची दिक् । प्राणेत्यनुप्राणत्प्राणमेवास्मिँस्तददधात् तं दक्षिणादिग्व्यानेत्यनुप्राणद्व्यानमेवास्मिंस्तददधात्तं प्रतीची दिगपानेत्यनुप्राणदपानमेवास्मिंस्तददधात्तमुदीची दिगुदानेत्यनुप्राणदुदानमेवास्मिंस्तददधात्तमूर्ध्वा दिक्समानेत्यनुप्राणत्समानमेवास्मिंस्तददधात्। माश ११, ८,३,६

६०. द्वयं वावेदमग्र आसीत्सच्चैवासच्च १ तयोर्यत्सत्तत्साम तन्मनस्स प्राणः अथ यदसत्सर्क्सा वाक्सोऽपानः २। जैउ १, १७, १, २ ।।

६१. तस्मात्प्राण एव साम । जैउ ३, १, १, १८ ।।

६२. तस्मात्सर्वे प्राणाः प्राणोदानयोरेव प्रतिष्ठिताः । माश १२, ९, १,१० ।।

*प्राण एवेन्द्रः। जिह्वा सरस्वती। नासिके अश्विनौ। यद्वै प्राणेनान्नमात्मन् प्रणयते। तत् प्राणस्य प्राणत्वम्। जिह्वया वा अन्नस्य रसं विजानाति। नासिके उ वै प्राणस्य पंथाः। माश १२.९.१.१४

६३. चक्षुर्वा आश्विनो ग्रहः। प्राणः सारस्वतः। वागैन्द्रः। आश्विनात्सारस्वतेऽवनयति। चक्षुरेवास्य तत्प्राणैः सन्दधाति। सारस्वतादैन्द्रे।प्राणानेवास्य तद्वाचा सन्दधाति। अथो प्राणानेवास्य तद्वाचि प्रतिष्ठापयति। तस्मात्सर्वे प्राणा वाचि प्रतिष्ठिताः। माश १२, ८,२,२५।।

६४. यद्वेव चिते गार्हपत्ये । अचित आहवनीयेऽथ राजानं क्रीणात्यात्मा वा अग्निः प्राणः सोम आत्मंस्तत्प्राणं मध्यतो दधाति। माश ७, ३, १, २ ।।

६५. तस्या ( वाचः ) उ प्राण एव रसः । जैउ १, १, १, ७  

६६. ता वा एताः सर्वा ऋचः सर्वे वेदा सर्वे घोषा एकैव व्याहृतिः प्राण एव, प्राण ऋच इत्येव विद्यात् । ऐआ २, २, २ ।

६७. ते पुनर्नव भवन्ति प्राणा एव। मनो दशमम् । जै १, १३७ ।।

६८. त्रयः प्राणाः, प्राणो व्यानो ऽपानः .... ( + द्वौ हि प्राणश्चापानश्च ....एको हि प्राणः [काठसंक.])। काठ १९, ११; काठसंक ५२: ३-६ (तु. तैसं २,५,११,५; मै ३,६,३, ४,५,४; काठ ३७,१; क ३१,१; ४७, ६; माश १,३,५,१३; ६,४,२,५  ९,४,२,१०) ।

*त्रय इमे पुरुषे प्राणा – माश १.३.५.१३

*गायत्रीभिः । प्राणो गायत्री प्राणमेवास्मिन्नेतद्दधाति तिसृभिस्त्रयो वै प्राणाः प्राण उदानो व्यानस्तानेवास्मिन्नेतद्दधाति तासां नवपदानि नव वै प्राणाः सप्त शीर्षन्नवाञ्चो द्वौ तानेवास्मिन्नेतद्दधाति - माश ६.४.२.[५]

*वातहोमैर्युनक्ति (रथं सर्वेभ्यः कामेभ्यः) । प्राणा वै वातहोमाः प्राणैरेवैनमेतद्युनक्ति त्रिभिर्युनक्ति त्रयो वै प्राणाः प्राण उदानो व्यानस्तैरेवैनमेतद्युनक्ति – माश ९,४,२,१०

६९. त्रयोदशेमे पुरुषे प्राणाः (+नाभिस्त्रयोदशी [माश.])। गो १,५,५; माश १२,३,२,२ ।। ७०. त्रिवृद्वै (°वृद्धि तैआ.J) प्राणः । तै ३, २, ३, ३; तैआ ५, ४, ११ ।।

*द्वे वै संवत्सरस्याहोरात्रे। द्वाविमौ पुरुषे प्राणौ। अत्र तत्समम्। त्रय ऋतवः संवत्सरस्य। त्रय इमे पुरुषे प्राणाः। अत्र तत्समम्। चतुरक्षरो वै संवत्सरः। चतुरक्षरोऽयं यजमानः। अत्र तत्समम्। पंचर्तवः संवत्सरस्य। पंचेमे पुरुषे प्राणाः। अत्र तत्समम्। षड् ऋतवः संवत्सरस्य। षडिमे पुरुषे प्राणाः। अत्र तत् समम्। सप्तर्तवः संवत्सरस्य। सप्तेमे पुरुषे प्राणाः। अत्र तत्समम्॥ द्वादश वै मासाः संवत्सरस्य। द्वादशेमे पुरुषे प्राणा-. अत्र तत्समम्। त्रयोदश वै मासाः संवत्सरस्य। त्रयोदशेमे पुरुषे प्राणाः। नाभिस्त्रयोदशी। अत्र तत्समम्। माश १२,३,२,२

७१. ते वा एत एकादश प्रयाजा भवन्ति । दश वा ऽइमे पुरुषे प्राणा आत्मैकादशो यस्मिन्नेते प्राणाः प्रतिष्ठिताः । माश ३ ८, १, ३ (तु. मै २,३,५; क ४२,५; कौ २९,८; जै १,१३२ २,३२२; ३२३; माश ६,३,१,२१)।

*नव भवन्ति स्वाहाकारो नवमो नव दिशो दिशोऽग्निर्नव प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति तानि दश भवन्त्याहुतिर्दशमी दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः – माश  ६,३,१,२१

७२. दशास्मिन् (पशौ ) प्राणाः, प्राणाः खलु वै पशोर्दैवताः...आत्मा वै प्राणानामेकादशः । मै ३,९,८ ।

७३. अथार्भवस्य पवमानस्य गायत्री। यो ऽयं प्राण एष एव सः। तस्यां द्वे सामनी। तस्माद् द्वयं प्राणेन करोति प्राण्यापानिति । जै १,२५४ । ।

७४. द्वादशविधा वा इमे प्राणाः सप्त शीर्षण्या द्वौ स्तन्यौ त्रयोऽवाञ्चः । ऐआ १, ५,१ (तु. गो १,५.५)

७५. द्वाववाञ्चौ प्राणौ। क ४२,२ (तु. काठ ११,२) ।

७६. द्वौ द्वौ हीमे (बहिष्ठात् [तैसं ) प्राणाः । तैसं ६,४,९,३; मै ४,५,५ ( तु. तैसं ६,४,४,४) ।

७७. नव पुरुषे प्राणाः (+नाभिर्दशमी [जै २,३१६J)। जै ३, ३१६;३१९ (तु. तैसं ५, ३,२,३; मै १,१०,८; ४,६,४; काठ ९,१६; २३,१; २४, ८; ३३,८; क ३५,७; ४५, ४; जै १,१३२; २,२४; ४१५:४३१; ३,१७६;२०६; तां ७,७,६; तै १, ३, ७,४; २,२,१,७; माश १, ५,२, ५; ६,३,१,२१; ८,२,१०; तैआ ५,६,९-१०)।

*नव दिशो दिशोऽग्निर्नव प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति ….दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - माश ६.३.१.[२१]

*तानि नव भवन्ति । नव दिशो दिशोऽग्निर्नव प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य
मात्रा तावत्तद्भवति - माश ६.८.२.[१०]

*तानि दश भवन्ति । दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - माश ६.८.२.[१२]

७८. नव वै प्राणाः (+आयुर्दशमम् [मै ४,६,६]); मै २,५, १०; ३, ४, ४; ४, ६, ६; ऐ ४, १६; कौ ७,१०; गो १,४,६; तां ४,५,२१; १४,७,६; ष ३,१२; ऐआ १,३,८ (तु. काठ ३६, २) ।।

*नव वै प्राणाः, प्राणाः खलु वै पुरुषे वीर्यम् , प्राणानस्मिन् वीर्यं दधाति – मै २.५.१०

*प्राणो वै गायत्री, गायत्रं हविर्धानं, अपानो जगती, जागतं सदो , व्यानस्त्रिष्टुप्, त्रैष्टुभमाग्नीध्रं, असुः पृश्नि , र्मध्ये दिव्यो निहितः पृश्निरश्मे, त्यमुं वावास्यैतन्मध्यतः प्राणापानानां व्यवदधाति प्राणानां धृत्यै , अश्मनवमा आग्नीध्रे सादयति, नव वै प्राणाः, प्राणान् वावास्यैतद्यजमानलोके दधाति -- मै ३.४.४

*उभयतो वैश्वानरो गृह्यते , उभयतो वैश्वानरो ह्ययं प्राणः , अयं वाव वैश्वानरो योऽयमवाङ् प्राणः , यदेष केवला उत्तरे हविर्धाने साद्यते तस्मादेषोऽर्धभाक् प्राणाना, मर्धभाजा इतरे..... पूर्वार्धे वा इमे मुखस्य प्राणा , एतत् खलु वै हविर्धानस्य पूर्वार्धं यद् दक्षिणं हविर्धानं , तस्माद् दक्षिणे हविर्धाने, प्राणा वा एत इतरे ग्रहा , आयुर्ध्रुवो , नव वै प्राणा , आयुर्दशमं – मै ४.६.६

७९. प्राणो गायत्री प्राणमेवास्मिन्नेतद्दधाति तिसृभिस्त्रयो वै प्राणाः प्राण उदानो व्यानस्तानेवास्मिन्नेतद्दधाति तासां नवपदानि नव वै प्राणाः सप्त शीर्षन्नवाञ्चो द्वौ तानेवास्मिन्नेतद्दधाति - माश ६, ४,२,५; ८,४,३,७। ।

*स प्राणानब्रवीत् । युष्माभिः सहेमाः प्रजाः प्रजनयानीति ते वै केन स्तोष्यामह इति मया चैव युष्माभिश्चेति…..तिसृभिरस्तुवतेति । त्रयो वै प्राणाः प्राण उदानो व्यानस्तैरेव तदस्तुवत ब्रह्माऽसृज्यतेति…..पञ्चभिरस्तुवतेति । य एवेमे मनःपञ्चमाः प्राणास्तैरेव तदस्तुवत भूतान्यसृज्यन्तेति…..सप्तभिरस्तुवतेति । य एवेमे सप्त शीर्षन्प्राणास्तैरेव तदस्तुवत सप्त ऋषयोऽसृज्यन्तेति…..नवभिरस्तुवतेति । नव वै प्राणाः सप्त शीर्षन्नवाञ्चौ द्वौ तैरेव तदस्तुवत पितरोऽसृज्यन्तेति…..एकादशभिरस्तुवतेति । दश प्राणा आत्मैकादशस्तेनैव तदस्तुवत ऋतवोऽसृज्यन्तेति..... त्रयोदशभिरस्तुवतेति । दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयोदशस्तेनैव तदस्तुवत मासा असृज्यन्तेति....माश ८.४.३.४

८०. नव वै शिरसि प्राणाः । शांआ २,२। ।

८१. गार्हपत्याग्निचयनम् -- अस्थीनि वै परिश्रितः । प्राणः सूददोहा न वा अस्थिषु प्राणोऽस्ति। माश ७,१,१,१५।।

८२. स (आरुणिः) होवाच गायत्रीम् एवाहं प्रियम् उपास इति। प्राणो वै गायत्री प्राणो वै प्रियम्। न वै प्राणात् प्रेयः किंचनास्ति ।(जीवलः कारीरादिः त्रिष्टुप्, आषाढस् सावयसो जगती, इन्द्रद्युम्नः भाल्लवेयः अनुष्टुप्)( अलंकरणं सुरभिर्गन्धो गायत्र्यै दर्शनीयस् त्रिष्टुभश् श्रवणीयो जगत्यै। यद् एव वाचा पुण्यं वदति तद् अनुष्टुभः) -  जै १,२७२ ।।

८३. न ह्येष ( प्राणः ) कदाचन संविशति । ऐआ २,१,६ ।

८४. पञ्चधाविहितो वाऽ अयं  शीर्षन्प्राणो मनो वाक् प्राणश्चक्षुः श्रोत्रम् । माश ९, २,२,५

८५. पराङ् (प्राङ् [क.]) प्राणः । मै ४,६,३; काठ २७, १; क ४२,१ ।।

८६. यद्वेव कूर्ममुपदधाति । प्राणो वै कूर्मः प्राणो हीमाः सर्वाः प्रजाः करोति प्राणमेवैतदुपदधाति तं पुरस्तात्प्रत्यञ्चमुपदधाति पुरस्तात्तत्प्रत्यञ्चम्प्राणं दधाति तस्मात्पुरस्तात्प्रत्यङ्प्राणो धीयते पुरुषमभ्यावृत्तं यजमाने तत्प्राणं दधाति दक्षिणतोऽषाढायै प्राणो वै कूर्मो वागषाढा प्राणो वै वाचो वृषा प्राणो मिथुनम् - ७.५.१.[७]। ८७. पुरस्ताद्वै नाभ्यै प्राणः । तैसं ३,४,१,३-४ ।।

८८. पूर्वार्धे वा इमे मुखस्य प्राणाः । मै ३,८,८; ४,६,६। ।

८९. प्राणं वा अनु प्रजाः पशवो भवन्ति जैउ २,२,२,७ ।

९०. अथैतम् आहवनीयम् उपतिष्ठेत वाचा मे वाग् दीक्षताम् अग्नये समष्टवा उ, प्राणेन मे प्राणो दीक्षतां वायवे समष्टवा उ, चक्षुषा मे चक्षुर् दीक्षतां सूर्याय समष्टवा उ, मनसा मे मनो दीक्षतां प्रजापतये समष्टवा व् इति। ..... वाचं म ऋचो ऽनु दीक्षन्तां, मनो यजूंषि, प्राणं सामानि।। जै २,६५। ।

९१. प्राण उक्थमित्येव विद्यात् । ऐआ २,१,४। ।

९२. उदान एव पूर्णमा उदानेन ह्ययं पुरुषः पूर्यत इव प्राण एव दर्शो ददृश इव ह्ययं प्राणस्तदेतावन्नादश्चान्नप्रदश्च दर्शपूर्णमासौ। प्राण एवान्नादः। प्राणेन हीदमन्नमद्यत उदान एवान्नप्रद उदानेन हीदमन्नं प्रदीयते... माश ११,२,४,५-६ ।।

*प्राणो वा अर्कस्तस्यान्नमेव क्यं तदर्क्यं यजुष्टः प्राण एव महांस्तस्यान्नमेव व्रतं तन्महाव्रतं सामतः प्राण उ एवोक्तस्यान्नमेव थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायते – माश १०.४.१.२३

९३. प्राण एव यजुः प्राणो हि यन्नेवेदं सर्वं जनयति प्राणं यन्तमिदमनु प्रजायते तस्मात्प्राण एव यजुः । अयमेवाकाशो जूः योऽयमन्तरात्मन्नाकाश एतं ह्याकाशमनु जवते तदेतद्यजुः प्राणश्चाकाशश्च यच्च जूश्च तस्माद्यजुः प्राण एव यत्प्राणो ह्येति। माश १०,३,५,४ । ।

९४, प्राण एव रज्जुः । प्राणेन हि मनश्च वाक् चाभिहिते । काश ३, १, ४, २ ।

*प्राण एवेन्द्रः। जिह्वा सरस्वती। नासिके अश्विनौ। यद्वै प्राणेनान्नमात्मन् प्रणयते। तत् प्राणस्य प्राणत्वम्। जिह्वया वा अन्नस्य रसं विजानाति। नासिके उ वै प्राणस्य पंथाः। - माश १२.९.१.१४

प्राण एव सविता। व्यानो वरुणः। शिश्नमिन्द्रः। यत् वै प्राणेनान्नमत्ति। तत् व्यानेन व्यनिति। शिश्नेन वा अन्नस्य रसं रेतः सिंचति। - माश १२,९,१,१६

९५. प्राण एव सविता (रथन्तरम् [जै.J) । गो १,१,३३; जै १,२२९; ।।

९६. प्राण एव स्रुवः सोऽयं प्राणः सर्वाण्यङ्गान्यनुसञ्चरति । तस्मादु स्रुवः सर्वाः अनु स्रुचः सञ्चरति । माश १, ३, २, ३

९७. प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये। प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते । तैआ ८,३,१; तैउ २, ३, १ ।।

९८. प्राणो वै स्वयमातृण्णाऽऽयुर् विकर्णी ।     प्राणं चैवायुश् च प्राणानाम् उत्तमौ धत्ते । तैसं ५,३,७,३

९९. प्रस्तोतः साम गाय ॥......प्राणस्य त्वा परस्पाय चक्षुषस्तन्वस्पाहि । श्रोत्रस्य त्वा धर्मणा..... । मै ४,९,१०

१००. यद्धोता यक्षद्धोता यक्षदिति मैत्रावरुणो होत्रे प्रेष्यत्यथ.... प्राणो वै होता प्राणः सर्व ऋत्विजः प्राणो यक्षत्प्राणो यक्षदित्येव तदाह। ऐ ६,१४ ।  

*आत्मा वै लोकम्पृणा प्राणो ऽनुष्टुप् तस्मात् प्राणः सर्वाण्य् अङ्गान्य् अनु चरति  - तैसं ५, ५, ६, २

१०१. प्राणो वै वाक् , यदेषा सर्वा इष्टका अनुसंचरति तस्मात् प्राणः सर्वाण्यङ्गानि अनुसंचरति। मै ३. २, ८

*गार्हपत्याग्निचयनम् -- अस्थीनि वै परिश्रितः । प्राणः सूददोहा न वा अस्थिषु प्राणोऽस्त्येकेन यजुषा बह्वीरिष्टका उपदधात्येकं ह्येतद्रूपं यदापो – माश ७.१.१.१५

सोमक्रयणम् -- इदमेवैतद्रेतः सिक्तमाप्याययति तस्माद्योनौ रेतः सिक्तमाप्यायते सौमीभ्यां प्राणो वै सोमः प्राणं तद्रेतसि दधाति तस्माद्रेतः सिक्तं प्राणमभिसम्भवति पूयेद्ध यदृते प्राणात्सम्भवेदेषो हैवात्र सूददोहाः प्राणो वै सोमः सूददोहाः - माश ७.३.१.[४५]

 

*त्रयो वेदा एत एव वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः । देवाः पितरो मनुष्या एत एव। वागेव देवा मनः पितरः प्राणो मनुष्याः । पिता माता प्रजैत एव। मन एव पिता वाङ्ग्माता प्राणः प्रजा । विज्ञातं विजिज्ञास्यम् अविज्ञातमेत एव। यत्किं च विज्ञातं वाचस्तद्रूपं वाग्घि विज्ञाता वागेनं तद्भूत्वाऽवति । यत्किं च विजिज्ञास्यम्। मनस्तद्रूपं मनो हि विजिज्ञास्यं मन एनं तद्भूत्वाऽवति । यत्किं चाविज्ञातम्। प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एव तद्भूत्वाऽवति - माश १४.४.३.[१७]

*अथैतस्य प्राणस्यापः शरीरं। ज्योतीरूपमसौ चन्द्रस्तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः - माश १४.४.३.[२०]

१०२. प्राणः सूददोहाः (सामवेदः [माश १४,४,३,१२J) । माश ७,१, १,१५; ३,१,४५; १४,४,३,१२ ।

*यद्वेव चिते गार्हपत्ये । अचित आहवनीयेऽथ राजानं क्रीणात्यात्मा वा अग्निः प्राणः सोम आत्मंस्तत्प्राणं मध्यतो दधाति तस्मादयमात्मन्प्राणो मध्यतः - माश ७.३.१.[२]

१०३. अग्नीषोमप्रणयनमन्त्राः -- आत्मा वै यज्ञस्य होता । प्राणः सोमः । न इत् प्राणाद् आत्मानम् अपादधानि इति ।। कौ ९, ६; माश ७, ३, १, २ । ।

*स्रुवश्चात्र स्रुक्च प्रयुज्येते । वाग्वै स्रुक्प्राणः स्रुवो वाचा च वै प्राणेन चैतदग्रे देवाः कर्मान्वैच्छंस्तस्मात्स्रुवश्च स्रुक्च। यद्वेव स्रुवश्च स्रुक्च । यो वै स प्रजापतिरासीदेष स स्रुवः प्राणो वै स्रुवः प्राणः प्रजापतिरथ या सा वागासीदेषा सा स्रुग्योषा वै वाग्योषा स्रुगथ यास्ता आप आयन्वाचो लोकादेतास्ता यामेतामाहुतिं जुहोति - माश ६.३.१.[९]

१०४. प्राणः (°णो वै [तै.J) स्रुवः । तै ३, ३, १, ५; माश ६, ३, १, ८ । ।

१०५. प्राणः स्वरः । जै १,३०१;३०७; तां ७ १,१०; १७,१२,२।।

*त्रीणि ह वै निधनानीळा स्वरो निधनम् एव निधनम्।…..आत्मा ह खलु वै निधनम्। प्राणस् स्वरः। पशव इळा।– जै १.३०७

१०६. प्राणा अन्तरतः ( अवकाशाः [माश.]) । क ४०,२; ४२,१; माश १४,२,२,५१ ।।

१०७. प्राणा आर्द्रास्सन्तोऽसंश्लिष्टाः । काठ २७, १; क ४२,१ ।।

१०८. प्राणा उभयतो वैश्वानराः । काठ २८,१ ।।

*चतुर्थी चिति -- प्राणा वै स्तोमाः प्राणा उ वै ब्रह्म ब्रह्मैवैतदुपदधाति - माश ८.४.१.[३]

*स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वै वायुर्वायुमेवैतदुपदधाति - माश ८.४.१.[८]

*स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वा ऋषय ऋषीनेवैतदुपदधाति - माश ८.४.१.[५]

अष्टादशेष्टका उपदधाति तौ द्वौ त्रिवृतौ प्राणो वै त्रिवृद्वायुरु प्राणो वायुरेषा चितिः - माश ८.४.१.[२७]

१०९. प्राणा उ वा वायुः ( वै ब्रह्म [माश ८, ४, १, ३] )। माश ८,४,१,३; ८ ।

११०. प्राणा उ ह वाव राजन् मनुष्यस्य सम्भूतिरेवेति । जैउ ४, ६, २, ४ ।

१११. प्राणा एव महः (साम [जै.J) । गो १,५,१५; जै २,३९ ।।

११२. मध्यमेव तृतीया चितिः । यदूर्ध्वं मध्यादवाचीनं ग्रीवाभ्यस्तच्चतुर्थी चितिर्ग्रीवा एव पञ्चमी चितिः शिर एव षष्ठी चितिः प्राणा एव सप्तमी चितिस्तामुत्तमामुपदधाति प्राणांस्तदस्य सर्वस्योत्तमान्दधाति तस्मादस्य सर्वस्य प्राणा उत्तमाः पुरीष उपदधाति मांसं वै पुरीषं मांसेन तत्प्राणान्प्रतिष्ठापयति नोपरिष्टात्प्रच्छादयति तस्मादिमे प्राणा उपरिष्टादसंच्छन्नाः - । माश ८ ७, ४, २१ ।।

११३. प्राणाः खलु वै पुरुषे वीर्यम् । मै २, ५, १०

११४. प्राणाः पर एकधा संतृण्णाः । काठ २५,९: क ४०,२ ।।

११५. प्राणादेवेमं लोकं (पृथिवीं प्रजापतिः) प्रावृहत् । कौ ६, १० (तु. काठ १३,७)।

११६. प्राणाद्वायुरजायत । तैआ ३, १२, ६ ।।

११७. प्राणाद् व्यानं  सन्तनु । काठ ३९, ८ ।।

११८. वाग् वा आग्रयणः ।     वाग् अष्टमम् अहर् ।.... प्राणो वा ऐन्द्रवायवः     प्राणो नवमम् अहर् ।      तस्मान् नवमे ऽहन्न् ऐन्द्रवायवो गृह्यते । तैसं ७, २, ८, ४ ।।

*प्राणा ग्रहाः ।     प्राणान् एव प्रजानाम्̇ शुचो मुञ्चति – तैसं ७.२.७.५

११९. वाग् वा  अनुष्टुप्, तस्मात् प्राणानां वाग् (+ज्योतिर् [तैसं ५, ३, २, ३]) उत्तमा । तैसं ५, १,९, १; ६,६,११,६।

*स्वयमातृण्णाम् उप दधाति ।     अन्तरिक्षं वै स्वयमातृण्णा ।     अन्तरिक्षम् एवोपधत्ते ।    अश्वम् उप घ्रापयति ।     प्राणम् एवास्यां दधाति । अथो प्राजापत्यो वा अश्वः ।     प्रजापतिनैवाग्निं चिनुते।..... दश प्राणभृतः पुरस्ताद् उप     दधाति ।     नव वै पुरुषे प्राणा नाभिर् दशमी ।     प्राणान् एव पुरस्ताद् धत्ते ।     तस्मात् पुरस्तात् प्राणाः ।
ज्योतिष्मतीम् उत्तमां उप दधाति ।     तस्मात् प्राणानां वाग् ज्योतिर् उत्तमाः । तैसं ५, ३, २, ३

१२०. प्राणान्त्संक्रोशैः ( प्रीणामि )। मै ३, १५, २ ।

१२१. प्राणाय त्वा, ऽपानाय त्वा, व्यानाय त्वा (देवः सविता प्रतिगृह्णातु)। तैसं १, १, ६, १-२ ।।

१२२. प्राणाय त्वेति प्राञ्चमेव । व्यानाय त्वेति तिर्यञ्चमपानाय त्वेत्यभ्यात्मम्, इति ऐआ ५, १, ४ ।।

१२३. प्राणाय त्वेत्युपांशुपात्रं सादयति । काठ २७, २ ।

१२४. असौ वा अदित्योऽच्छिद्रं पवित्रम् । तेनैवैना उत्पुनाति । वसोः सूर्यस्य रश्मिभिरित्याह । प्राणा वा आपः प्राणा वसवः । प्राणा रश्मयः । तै ३, २, ५, २ ।।

१२५. अथ महानाम्नयः। प्राणा वा अग्रे सप्त। तेभ्य एतां सप्तपदां शक्वरीं निरमिमीत।। जै ३,११०

*अन्वहम् आजिदोहानि भवन्ति। प्राणा वा आजिदोहानि। - जै २.२५५

१२६. प्राणा वा उपरवाः (आजिदोहानि [जै.) । मै ३, ८, ८; ४,६,६; जै २,२५५ ।।

*न संशंसतीँ३ आत्मा वै स्तोत्रियः प्राणा वालखिल्याः स यत्संशंसेदेताभ्यां देवताभ्यां यजमानस्य प्राणान्वीयाद् – ऐ ६.२६

*वालखिल्याः शंसति प्राणा वै वालखिल्याः प्राणानेवास्य तत्कल्पयति। ता विहृताः शंसति विहृता वा इमे प्राणाः प्राणेनापानोऽपानेन व्यानः। स पच्छः प्रथमे सूक्ते विहरत्यर्धर्चशो द्वितीये ऋक्शस्तृतीये। स यत्प्रथमे सूक्ते विहरति प्राणं च तद्वाचं च विहरति यद्द्वितीये चक्षुश्च तन्मनश्च विहरति यत्तृतीये श्रोत्रं च तदात्मानं च विहरति। - ऐ ६.२८

१२७. प्राणा (+वै [ऐ ६,२८; गो.J) वालखिल्याः । ऐ ६, २६; २८; कौ ३०,८; गो २,६,८।

*स्तोत्रिया अनुरूपौ शस्त्वा वालखिल्याः शंसति । आत्मा वै स्तोत्रिया अनुरूपौ । प्राणा वालखिल्याः । अनन्तर्हिता उ हेमे आत्मनः प्राणाः । तद् आहुः कस्माद् वालखिल्या इति ।
यद् वा उर्वरयोर् असम्भिन्नम् भवति । खिल इति वै तम् आचक्षते । वाल मात्रा उ हि इमे प्राणा असम्भिन्नाः । तद् यद् असम्भिनाः । तस्माद् वालखिल्याः । - कौ ३०,८

१२८. देवा वा असुरान् युधम् अपप्रयन्तो ऽब्रुवन् यन् नो वामं वसु तद् अपनिधाय युध्यामहै यद् अद्य कस्मिंश् चिद् भूते ऽभ्यवधावामेति। प्राणा वाव तेषां वामं वस्व् आसीत्। तद् अपनिधाय युधम् अपपरायन्।। जै १,१४२ । ।

*स भक्षयति। इदं हविः प्रजननं मे अस्तु इति। प्रजननं हि। यदि पयो यदि सोमः। दशवीरम् इति । प्राणा वै दश वीराः। प्राणानेवात्मन्धत्ते। १२,८,१,२२

१२९. प्राणा वै दश वीराः (वातहोमाः (माश ९,४,२,१०]) । माश ९,४,२,१०; १२,८,१,२२ १३०. प्राणा वै द्विदेवत्या एकपात्रा गृह्यन्ते तस्मात्प्राणा एकनामानो (°नस्ते [काठ., क.J) द्विपात्रा हूयन्ते तस्मात्प्राणा द्वन्द्वम् । काठ २७,५; क ४२, ५; ऐ २,२७ ।

१३१. तं (मृत्युः) माध्यंदिने बृहतीषु नाशक्नोत्सत्तुं प्राणा वै बृहत्यः प्राणानेव तन्नाशक्नोद्व्यवैतुं तस्मान्माध्यंदिने होता बृहतीषु स्तोत्रियेणैव प्रतिपद्यते प्राणा वै बृहत्यः प्राणानेव तदभि प्रतिपद्यते (ब्रह्म [तै ]) । ऐ ३,१४; तै ३,२,८,८ । ।

*अथ मारुताञ्जुहोति । प्राणा वै मारुताः प्राणानेवास्मिन्नेतद्दधाति वैश्वानरं हुत्वा
शिरो वै वैश्वानरः शीर्षंस्तत्प्राणान्दधाति - माश ९.३.१.[७]

१३२. प्राणा वै भुजः (मारुताः [माश ९,३,१,७]) । माश ७, ५,१,२१; ९,३,१,७।

*भुजोभुजिष्या वित्त्वेति प्राणा वै भुजोऽन्नं भुजिष्या एतत्सर्वं वित्त्वेत्येतद्यत्प्राणान्प्राणयत्पुरीत्यात्मा वै पूर्यद्वै प्राणान्प्राणयत्तस्मात्प्राणा देवा अथ यत्प्रजापतिः प्राणयत्तस्मादु प्रजापतिः प्राणो यो वै स प्राण एषा सा गायत्र्यथ यत्तदन्नमेष स विष्णुर्देवताथ या सोऽर्गेष स उदुम्बरः – माश ७.५.१.[२१]

*इदं तच्छिर एष ह्यर्वाग्बिलश्चमसऽऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपमिति प्राणा वै यशो निहितं विश्वरूपम्प्राणानेतदाह तस्यासत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणानेतदाह वागष्टमी ब्रह्मणा संविदानेति वाग्घ्यष्टमी ब्रह्मणा संवित्ते - १४.५.२.[५]

*सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत्प्राणा वै यशो वीर्यं तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत् - १०.६.५.[६]

१३३. प्राणा वै यशः ( यशो वीर्यम् [माश १०,६,५,६J) । माश १०,६,५,६:१४,५,२,५।।

१३४. प्राणा वै रुद्राः । प्राणा हीदं सर्वं रोदयन्ति  जैउ ४, २, १, ६ ।।

१३५. प्राणा वै वसवः (+प्राणा हीदं सर्वं वस्वाददते जैउJ) । तै ३,२,३,३, ५,२; जैउ ४,२,१,३ ।

सेयं वामभृत् । प्राणा वै वामं यद्धि किं च प्राणीयं तत्सर्वं बिभर्ति तेनेयं वामभृद्वाग्घ त्वेव वामभृत्प्राणा वै वामं वाचि वै प्राणेभ्योऽन्नं धीयते तस्माद्वाग्वामभृत् – माश ७.४.२.[३५]

१३६. प्राणा वै वामदेव्यम् (वामम् [माश.J) । जै ३.३०१: माश ७.४,२.३५ ।।

स्वाहा विश्वेभ्यो देवेभ्य इति प्राणा वै विश्वे देवाः प्राणानेवास्मिन्नेतद्दधाति हुत्वा
मध्यमे परिधा उपश्रयति – माश १४.२.२.[३७]

१३७. उख्याग्निनयनम्-- उद् उ त्वा विश्वे देवा इत्य् आह प्राणा वै विश्वे देवाः ।
प्राणैर् एवैनम् उद् यच्छते । (सप्त ऋषयः । मै. ])। तैसं ५, २,२,१; मै १,५,११; काठ १९,१२: २१,८; क ३१, २;

समित् आधानादिविधिः -- उद् उ त्वा विश्वे देवा इत्य् आह प्राणा वै विश्वे देवाः प्राणैः
एवैनम् उद् यच्छते । - तैसं ५.४.६.१

स्वाहा विश्वेभ्यो देवेभ्य इति प्राणा वै विश्वे देवाः प्राणानेवास्मिन्नेतद्दधाति हुत्वा
मध्यमे परिधा उपश्रयति - माश १४.२.२.[३७]

१३८. प्राणा वै शाकलाः प्राणानेवास्मिन्नेतद्दधाति - माश १४.२.२.[३१] ( सत्यम् [माश १४, ५, १, २३J) । माश १४, २,२,३१; ५,१,२३ (तु. माश १४,२,२,५१) ।।

तदाहुः यत्प्रयाजानुयाजा अन्यत्र भवन्त्यथ कस्मादत्र न भवन्तीति प्राणा वै प्रयाजानुयाजाः प्राणा अवकाशाः प्राणाः शाकला नेत्प्राणैः प्राणानभ्यारोहयाणीति - माश १४.२.२.[५१]

१३९. प्राणा वै सजाताः (+प्राणैर्हि सह जायते [माश.])। तैसं २,६,९,७; माश १,९,१, १५ ।

सप्त ते अग्ने समिध इति प्राणा वै समिधः प्राणा ह्येतं समिन्धते सप्त जिह्वा इति यानमून्त्सप्त पुरुषानेकं पुरुषमकुर्वंस्तेषामेतदाह सप्त ऋषय इति सप्त हि त ऋषय आसन् - माश ९.२.३.[४४]

प्रयाजावृत् -- स वै समिधो यजति । प्राणा वै समिधः प्राणानेवैतत्समिन्द्धे प्राणैर्ह्ययम्पुरुषः समिद्धस्तस्मादभिमृषेति ब्रूयाद्यद्युपतापी स्यात्स यद्युष्णः स्यादैव तावच्छंसेत समिद्धो हि स तावद्भवति - माश १, ५, ४,१

१४०. प्राणा वै समिधः (+प्राणा ह्येतं समिन्धते [माश ९,२,३,४४])। ऐ २, ४; माश १, ५, ४,१, ९,२,३,४४ ।।

१४१. यत्र पूर्वे साध्याः सन्ति देवा इति प्राणा वै साध्या देवास्त एतमग्र एवमसाधयन्नेतदेव बुभूषन्तस्त उ एवाप्येतर्हि साधयन्ति पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य भूनेति पश्चा हैवेदमन्यद्यज्ञियमास यत्किं चामृतम् माश १०, २,२,३ ।।

१४२. अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन्देवा एतदमृतं रूपमुत्तममदधुस्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति सामानि भवन्ति प्राणा वै सामान्यमृतमु वै प्राणा अमृतमेवास्मिन्नेतद्रूपमुत्तमं दधाति । माश ९,१,२,३२ ।।

प्राणा वै सीतास्तासामयं समयो वाचि वै प्राणेभ्योऽन्नं धीयते मध्यतो मध्यत एवास्मिन्नेतदन्नं दधाति - माश ७,२,३,३

यद् व् एवैते त्रिवृत्पञ्चदशे स्तोत्रे व्यतिषक्ते भवतो - व्यतिषक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। अथो प्राणा वै स्तोमा, व्यतिषक्ता वा इमे प्राणा अनिर्मार्गाय। - जै २.१३३

दधिक्राव्णो अकारिषमिति सुरभिमतीमृचं वदन्ति  । प्राणा वै सुरभयः  ।  प्राणानेवात्मन्दधते  । नैभ्यः प्राणा अपक्रामन्ति  । तैब्रा ३.९.७.५

१४३, प्राणा वै स्तोमाः । जै २,१३३; माश ८,४,१,३ ।

१४४. प्राणा वै स्वभवसो देवाः । तैसं ६, ४, ५, ५। ।

१४५. प्राणा वै स्वाशिरः (स्वाहाकृतयः [कौ.]) । कौ १०,५; तां १४, ११,९ ।।

१४६. आत्मैवाग्निः प्राणाः शिक्यं प्राणैर्ह्ययमात्मा शक्नोति स्थातुं यच्छक्नोति तस्माच्छिक्यं प्राणैरेवैनमेतद्बिभर्ति षडुद्यामं भवति षड्ढि प्राणाः -माश ६,७,१,२०

१४७. प्राणाः स्वरसामानः (शिल्पानि [कौ.])। कौ २५,१२,१३; तां २४, १४, ४, २५, १, ८ ।

१४८. प्राणेन पर्वणि संदधाति । ऐआ १, ४, १ । ।

१४९. प्राणेन यज्ञः सन्ततः। मै ४,६,२।।

१५०. मानो वै रेतस्या प्राणो गायत्री चक्षुस् त्रिष्टुप् श्रोत्रं जगती वाग् अनुष्टुप्। मनसा सुहार्दसं च दुर्हार्दसं च विजानाति। प्राणेन सुरभि चासुरभि च विजानाति। चक्षुषा दर्शनीयं चादर्शनीयं च विजानाति।। जै १,२६९ ।।

१५१. अथाभ्यनिति। प्राणे वै शान्तिर् अग्निर् वै बृहद्रथन्तरे। ते प्राणेन शमयति।। जै १.३२७ ।।

१५२. प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तैआ ९,७,१; तैउ ३,७,१ ।। १५३. प्राणैर्ह्ययं पुरुषः समिद्धः । माश १, ५, ४, १ ।।

१५४. प्राणो ज्येष्ठश्च श्रेष्ठश्च । शांआ ९,२ । ।

१५५. स्वारम् अन्त्यं भवति। प्राणस् स्वरः प्राणो ऽन्त्यम्। .... स्वारं मैत्रावरुणसाम। प्राणस् स्वरः प्राणो मैत्रावरुणसाम॥...स्वरेणानुष्टुभम् आरभेत। प्राणस् स्वरो वाग् अनुष्टुप्। प्राणेनैवैतद् वाचम् अनुसंतनोति प्राणेन वाचम् आरभते॥ । जै १,३०९। ।

१५६. प्राणो बृहत् (बृहती [ऐआ.J) । तां ७,६,१४;१७; १८,६,२६; ऐआ २,१,६ ।

१५७. प्राणो बृहतः ( रूपम् ) । ऐआ ३,१,६ ।

१५८. प्राणो ब्रह्मेति व्यजानात् । तै ९,३,१; तैउ ३,३,१ । ।

वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः - माश १४.४.३.[११]

वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः – माश १४.४.३.[१२]

१५९. वागेव देवा मनः पितरः प्राणो मनुष्याः (भरतः [ऐ.) । ऐ २,२४; माश १४,४,३,१३

मन एव पिता वाङ्ग्माता प्राणः प्रजा - माश १४.४.३.[१४]

यत्किं चाविज्ञातम्। प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एव तद्भूत्वाऽवति - माश १४.४.३.[१७]

अथैतस्य प्राणस्यापः शरीरं। ज्योतीरूपमसौ चन्द्रस्तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः - माश १४.४.३.[२०]

१६०. प्राणो महाव्रतम् (महः [माश १२,३,४,१०]) । माश १०,१,२,३; १२, ३,४,१० !

१६१. प्राणो मातरिश्वा ( यजमानः [ष.J) । ऐ २,३८; ष २,५।।

१६२. प्राणो ऽमृतं तद्ध्यग्ने रूपम् । माश १०,२,६,१८। ।

१६३. प्राणे मे होता । ष २,७ ।।

१६४. प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां व्यानो यज्ञेन कल्पताम् । तैसं १,७,९,१-३।।

१६५. प्राणो वंशः -- ऐआ ३,१,४,

तद्यथा शालावंशे सर्वेऽन्ये वंशाः समाहिताः स्युरेवमस्मिन्प्राणे चक्षुः श्रोत्रं मनो वागिन्द्रियाणि शरीरं सर्व आत्मा समाहितः – ऐआ ३.२.१

तस्यैतस्याऽऽत्मनः प्राण ऊष्मरूपमस्थीनि स्पर्शरूपं मज्जानः स्वररूपं मांसं लोहितम् - ऐआ ३.२.१

वागायुर्विश्वायुर्विश्वमायुरित्याह प्राणो वा आयुः प्राणो रेतो वाग्योनिः – ऐ २.३८

१६६. प्राणो (+वै [ऐ.J) वनस्पतिः । ऐ २,४:१०; कौ १२,७।।

१६७. तं प्रथयति  । वसवस्त्वा कृण्वन्तु गायत्रेण च्छन्दसाङ्गिरस्वदिति... प्राणो वाऽ अङ्गिराः । माश ६,५,२,३

रुद्रास्त्वा कृण्वन्तु त्रैष्टुभेन च्छन्दसाङ्गिरस्वदिति -- प्राणो वा अङ्गिरा – माश ६.५.२.४

१६८. प्राणो वा अपानो व्यानस्तिस्रो देव्यः । ऐ २,४ ।

१६९. प्रजापतेर्विस्रस्ताद्रम्या तनूर्मध्यत उदक्रामत् ...प्राणो वाऽ अस्य ( यजमानस्य ) सा रम्या तनूः। माश ७,४,१,१६

१७०. प्राणो वा उपांशुः । मै ४,५,५; ७,४ ।।

वाचस्पतिर्वाचं नः स्वदत्विति वाग्वा इदं कर्म प्राणो वाचस्पतिः प्राणो न इदं कर्म स्वदत्वित्येतत् – माश ६.३.१.[१९]

स गृह्णाति । वाचस्पतये पवस्वेति प्राणो वै वाचस्पतिः प्राण एष ग्रहस्तस्मादाह वाचस्पतये पवस्वेति वृष्णो अंशुभ्यां गभस्तिपूत इति सोमांशुभ्यां ह्येनम्पावयति - माश ४,१,१,९

१७२. प्राणो वा भुवनेषु जागरः। प्राण एवास्य सा हुताहुतिर् भवति। तस्मादु आहुः प्राणो ऽग्निहोत्रम् इति। यावद् ध्य एव प्राणेन प्राणिति तावद् अग्निहोत्रं जुहोति। जै १,२०

१७३ प्राणो वाव साम्नस्सुवर्णम् । जैउ १,१२,५,४ । ।

१७४. प्राणो वै कूर्मः प्राणो हीमाः सर्वाः प्रजाः करोति.... यजमाने तत्प्राणं दधाति दक्षिणतोऽषाढायै प्राणो वै कूर्मो वागषाढा प्राणो वै वाचो वृषा प्राणो मिथुनम् । माश ७,५,१,७।।

१७५. प्राणो वै गोपाः । स हीदं सर्वमनिपद्यमानो गोपायति । जैउ ३,६,९,२ ।।

१७६. प्राणो वै गायत्रसाम । तैआ ५,६,४ ।

१७७. प्राणो वै ज्येष्ठश्च श्रेष्ठश्च । माश १४,९,२,१ ।

१७८, प्राणो वै दशहोता । मै १,९,५।।

१७९. अथ शाकलैर्जुहोति प्राणा वै शाकलाः प्राणानेवास्मिन्नेतद्दधाति - माश १४,२,२,३१

स्वाहा पूष्णे शरस इति अयं वै पूषा योऽयं पवत एष हीदं सर्वं पुष्यत्येष उ प्राणः प्राणमेवास्मिन्नेतद्दधाति – माश १४,२,२,३२

स्वाहा ग्रावभ्य इति प्राणा वै ग्रावाणः - माश १४,२,२,३३

प्राणो वै प्रतिरवाः प्राणान्हीदं सर्वं प्रतिरतम् । माश १४,२,२,३४।।

तद् यद् गायत्रीषु बृहद् भवति - प्राणो वै बृहत्। प्राणो गायत्री - प्राणैर् एव तत् समृध्यन्ते। - जै २,१८१

१८०. प्राणो वै प्रायणीयः (बृहत् [जै.J)। ऐ १,७; जै २,१८१ ।।

१८१. प्राणो वै ब्रह्म (+पूर्व्यम् Lमाश ६, ३,१,१७]) । माश १४,६,१०,२; जैउ ३,७,१,२ १८२. प्राणो वै मधु (भक्षः [माश ४,२,१,२९J) । माश १४,१, ३,३०; तैआ ५,४,११ ।

१८३. मनो वै मनुष्यधुर् आपो देवधुरः। रेतस्यायां प्रस्तुतायां मनसापस् संदध्यात्।.....प्राणो वै मनुष्यधूर्वायुर्देवधूः । गायत्र्यां प्रस्तुतायां प्राणेन वायुं संदध्यात्।... चक्षुर्वै मनुष्यधूरादित्यो देवधूः ।... श्रोत्रं वै मनुष्यधूर्दिशो देवधूः ।... वाग् वै मनुष्यधूः पृथिवी देवधूः । जै १,२७०

१८४. प्राणो वै माध्यन्दिनः पवमानः । माश १४,३,१,२९।।

१८५. प्राणो वै मित्रः । तैसं ५, ३, ४, २; माश ६,५,१,५; ८,४,२,६; १२,९,२,१२ ।।

१८६. प्राणो वै यजुः प्राणे हीमा नि सर्वाणि भूतानि युज्यन्ते । माश १४,८,१४,२ ।

१८७. प्राणो वै यज्ञस्योद्गाता (युवा सुवासाः [ ऐ.J)। ऐ २,२; माश १४,६,१,८।।

१८८. प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रतानि । माश १४,८,१३,३ ।

१८९. प्राणो वै रुक् प्राणेन हि रोचते । माश ७,५,२,१२ ।  

१९०. प्राणो वै वयः (वषट्कारः [माश.J)। ऐ १,२८; माश ४,२,१,२९ ।

१९१. प्राणो वै वसिष्ठ ऋषिः । माश ८,१,१,६ ।।

१९२. प्राणो वै वाक् (वातः [माशJ) । मै ३,२,८; माश १,१,२,१४ ।

१९३. प्राणो वै ( हि [जै.J) वामदेव्यम् । जै १,३३३; २,४२४; माश ९,१,२,३८ ।

प्राणो वै वायुर् अपानो नियुत् - तैसं २,१,१,२

१९४. प्राणो वै ( हि [त.J) वायुः । मै २,५,१; ३,४,३; ४,५,८, ६,२; काठ २१,३; कौ ५,८; १३,५; ३०,५; गो २,१,२६; जै २,१३७;१८४;१९७;३८९; ३, २२७; तां ४,६,८; माश ४,१, १,१५; ६,२,२,६ ।।  

प्राणो ह वा अस्योपांशुः । व्यान उपांशुसवन उदान एवान्तर्यामः। अथ यस्मादुपांशुर्नाम । अंशुर्वै नाम ग्रहः स प्रजापतिस्तस्यैष प्राणस्तद्यदस्यैष प्राणस्तस्मादुपांशुर्नाम - ४.१.१.[२]

प्राणो वै वायुर्नियुत्वते भवत्युदानो वै नियुतः प्राणोदानावेवास्मिन्नेतद्दधाति – माश ६.२.२.[६]

१९५. विचक्षणवतीं वाचं वदति। प्राणो वै विचक्षणः। तस्य वाग् एव मिथुनम्। मिथुनवतीम् एव तद् वाचं वदति। । जै २,६४ ।।  

१९६. विश्वस्मै प्राणायापानाय । व्यानायेति प्राणो वै विश्वज्योतिः सर्वस्मा उ एतस्मै प्राणो विश्वं ज्योतिर्यच्छेति ( इष्टका )। माश ७,४,२,२८; ८,३,२,४; ८,७,१,२२

अभि प्रियाणि पवते चनोहितः इति। प्रजापतिः प्रजा असृजत। ता अप्राणा असृजत। ताभ्य एताभिर् एवर्ग्भिः प्राणान् अदधात्। - जै १.१६६

१९७. आ सूर्यस्य बृहतो बृहन्न् अधि रथं विष्वञ्चम् अरुहद् विचक्षणः इति। प्राणो वै विष्वङ्। सो ऽयं विष्व् अञ्चति। । जै १,१६६

गायत्रीं गायति। प्राणो वै गायत्री। तस्यै द्वे अक्षरे व्यतिषजति। प्राणापानाव् एव तद् व्यतिषजति। तस्मात् प्राणापानौ व्यतिषक्तौ प्रजा अनुसंचरत आ च परा चायातयामानौ। सत् इति निधनं करोति। प्राणो वै सन्। प्राण एव तत् प्रतितिष्ठति॥ - जै १,१०२

१९८. प्राणो वै संवत्सरः । तां ५,१०,३ ।।

१९९. उपहूतेडा ततुरिरिति । ....उपहूतः सखा भक्ष इति । प्राणो वै सखा भक्षः । माश १,८,१,२३

एषोऽहैव प्राणो य एष हिरण्मयः पुरुषस्तस्य त्वयमात्मा यावदिदमभ्ययमग्निर्विहितः – ८.१.४.१

२००. प्राणो वै समञ्चनप्रसारणं यस्मिन्वाऽ अङ्गे प्राणो भवति तत्सं चाञ्चति प्र च सारयति…..यो वा आत्मन्प्राणः स एव प्राणस्तद्यत्प्राणभृत उपदधाति तदस्मिन्प्राणं समञ्चनप्रसारणं दधाति तथा सं चाञ्चति प्र च सारयति । माश ८,१,४,१०

२०१. प्राण एवायतनमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण एव सम्राडिति होवाच प्राणस्य वै सम्राट्कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधशङ्का भवति। माश १४,६,१०, ३ ।।

२०२. मनो ह वा ऽऽअस्य सविता प्राण उपांशुस्तस्मादुपांशुपात्रेण गृह्णात्यन्तर्यामपात्रेण वा समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ हि ।... मनो ह वा अस्य सवितात्माऽऽग्रयण आत्मन्येवैतन्मनो दधाति प्राणो ह वा अस्य सविताऽऽत्माग्रयण आत्मन्येवैतत्प्राणं दधाति ऐ १,१९; माश ४,४,१,५

२०३. प्राणो वा उक्थं प्राणो हीदं सर्वमुत्थापयति.... प्राणो वै यजुः। प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते .....प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि ।.... प्राणो वै क्षत्रं। प्राणो हि वै क्षत्रं त्रायते। माश १४,८,१४,३ ।।

२०४. प्राणो वै सावित्रग्रहः (सिन्धुश्छन्दः [माश.J) । कौ १६, २; माश ८,५,२,४ ।

२०५. प्राणो वै सुशर्मा सुप्रतिष्ठानः । माश ४,४, १, १४ । ।

२०६. प्राणो वै सुसन्दृक् ( सुपर्णः [शां.आ.J) । तै १, ६, ९, ९; शांआ १,८।।

२०७. प्राणो वै सूददोहाः । माश ७,१,१,२६; ऐआ १,४,१ ।।

प्राणो वै सोमो राजा. तद् यद् धविर्धाने ग्रावभिस् सोमं राजानम् अभिषुत्य नानाग्रहान् गृह्णन्ति नानाप्रवरान् प्रवृणते नाना यजन्ति तेनैवैषां तन् नानेष्टं भवति। - जै १.३६१

२०८. प्राणो वै सोमः (+राजा [जै.J)। जै १,३६१; माश ७,३,१,४५ ।

२०९. प्राणो वै स्तवः (स्वारम् [ जै.J) । कौ ८,३; जै १,१६० ।।

२१०. प्राणो वै स्तोत्रियो ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति। मनो वै स्तोत्रियो, वाग् अनुरूपः। साम वै स्तोत्रिय, ऋग् अनुरूपः। अहर् वै स्तोत्रियो, रात्रिर् अनुरूपः। इयं वै स्तोत्रियो, ऽसाव् अनुरूपः। आत्मा वै स्तोत्रियः, प्रजानुरूपः।.... यस्मात् कर्ता च करणश् च सदृशौ सन्तौ विज्ञायेते।  जै ३,२१; ३५।।

२११. प्राणो वै स्वयमातृण्णा (+प्राणो ह्येवैतत्स्वयमात्मन आतृन्ते [माश ७, ४,२, २]) । तैसं ५, ३, ७, ३; मै ३, ३, १; ४,७; माश ७,४,२,२; ८, ७,२,११ ।।

२१२. प्राणो वै स्वरः । जै १,१२३; १४०; १६४;२१५ २, १६८; ३,१९४, २२९; तां २४,११, ९ ।।

२१३. प्राणो वै हरिः स हि हरति । कौ १७, १ ।।

२१४. सा हैषा वागनुद्यमाना तताम तस्यां देवा वाचि तान्तायां हिङ्कारेणैव प्राणमदधुः प्राणो वै हिङ्कारः प्राणो हि वै हिङ्कारस्तस्मादपिगृह्य नासिके न हिङ्कर्तुं शक्नोति। मै ४, ६, ४; माश ४,२,२,११; शांआ २, १ । ।

२१५. कस्मिंस्त्वोपधास्यामीति हित एवेत्यब्रवीत्प्राणो वै हितं प्राणो हि सर्वेभ्यो भूतेभ्यो हितः.... किं हितं किमुपहितमिति प्राण एव हितं वागुपहितं प्राणे हीयं वागुपेव हिता प्राणस्त्वेव हितमङ्गान्युपहितं प्राणे हीमान्यङ्गान्युपेव हितानि  । माश ६, १, २, १४ ।।

२१६. स हृदयस्यैवाग्रेऽवद्यति । तद्यन्मध्यतः सतो हृदयस्याग्रेऽवद्यति प्राणो वै हृदयमतो ह्ययमूर्ध्वः प्राणः संचरति। माश ३, ८,३,१५ ।।

अथैषु हिरण्यशकलान्प्रत्यस्यति । प्राणा वै हिरण्यमथ वा एतेभ्यः पशुभ्यः संज्ञप्यमानेभ्य एव प्राणा उत्क्रामन्ति तद्यद्धिरण्यशकलान्प्रत्यस्यति प्राणानेवैष्वेतद्दधाति - माश ७,५,२,८

२१७. प्राणो वै होता (हिरण्यम् [माश.J)। ऐ ६, ८; १४; गो २, ५, १४; माश ७,५,२,८ ।

२१८. प्राणोऽस्मि प्रज्ञात्मा, तं मामायुरमृतमित्युपास्स्व । शांआ ५, २; कौउ ३, २ ।। २१९. मनो ह वा अस्य सविता तस्मादिदमसन्नं मनः प्राणो ह वा अस्य सविता तस्मादयमसन्नः प्राणः। माश ४, ४, १, ७ ।।

२२०. प्राणो हविः । मै १, ९, १; तैआ २, १७, २,  ३, १, १ ।।

२२१. प्राणो हि प्रियः प्रजानाम् । प्राण इव प्रियः प्रजानां भवति । य एवं वेद । तै २,३,९,५ ।

२२२. यद्यश्वो वडवां स्कन्देद्वायव्यम्पयोऽनुनिर्वपेद्वायुर्वै रेतसां विकर्ता प्राणो वै वायुः प्राणो हि रेतसां विकर्ता। माश १३, ३, ८, १ । ।

२२३. प्राणो हि वामदेव्यम् (वायुः [तां ]) । जै १,३३३, २,४२४; तां ४. ६,८ ।।

२२४. प्राणो वै क्षत्रं। प्राणो हि वै क्षत्रं त्रायते हैनं प्राणः क्षणितोः प्र क्षत्रमात्रमाप्नोति क्षत्रस्य सायुज्यं सलोकतां जयति । माश १४, ८, १४, ४ ।।

२२५. प्राणो हि वै हिङ्कारस्तस्मादपिगृह्य नासिके न हिङ्कर्तुं  शक्नोति । माश १, ४, १, २ ।।

२२६. प्राणो हि सोमः ! काठ ३५, १६; क ४८, १४; तां ९, ९, १; ५ ।

२२७. प्राणो हीदं सर्वं प्राणेत । तद्यत् प्राणेत तस्मात् प्राणः । जै २, ५७ ।।

२२८. प्राणो हृदये (श्रितः )। तै ३, १०, ८, ५; शांआ ११, ६ ।।

२२९. इयं ह वा उपांशुः । प्राणो ह्युपांशुरिमां ह्येव प्राणन्नभिप्राणित्यसावेवान्तर्याम उदानो ह्यन्तर्यामोऽमुं ह्येव लोकमुदनन्नभ्युदनित्। माश ४, १, २, २७

२३०. प्रादेशमात्रं हीम आत्मनो ऽभि प्राणाः । कौ २,२ ।।

२३१. बहवो मुखे प्राणी एको ऽवाङ् । क ४२, ५ ।

२३२, बर्हिरेव स्तृणाति, तस्माल्लोमशा अन्तरतः प्राणाः । तैसं ६, २, ११, ३ ।।

२३३. बहिर्हि प्राणः । तां ७, ६, १४ ।।

२३४. बहुधा ह्येवैष निविष्टो यत्प्राणः । जैउ ३, १, २, १३ ।।

२३५. भूरिति वै प्राणः । तैआ ७, ५, ३; तैउ १, ५, ३ ।।

२३६. मध्यतो ह्ययं प्राणः प्रजाः पशून् भुवनानि विवस्ते । जै १,३०७ ।।

२३७. मन इदं सर्वमेकं भूत्वा प्राणे प्रतिष्ठितम् । जै ३, ३७१ ।

२३८. मनसा हि प्राणो धृतः । काठ २७, १, क ४२, १ ।।

२३९. मनसैव प्राणमाप्नोति । मै ४, ५, ५ ।।

२४०. मनो वा अनु प्राणा वाचम् अन्व् आत्मा। स यद् वाचा पूर्वाम् आहुतिं जुहोति मनसोत्तरां तद् दुष्कृतसुकृते व्यावर्तयति। । जै १, १६ ।।

मनसः पुरुषं चक्षुषोऽश्वं प्राणाद्गां श्रोत्रादविं वाचोऽजं तद्यदेनान्प्राणेभ्योऽधि निरमिमीत तस्मादाहुः प्राणाः पशव इति मनो वै प्राणानां प्रथमं तद्यत्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः प्रथमः पशूनां वीर्यवत्तम इति मनो वै सर्वे प्राणा मनसि हि सर्वे प्राणाः प्रतिष्ठिताः - माश ७,५,२,६

२४१, मनो वै प्राणानामधिपतिर्मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तन्मनसैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य । माश १४, ३,२, ३ (तु. माश ७,५,२,६)।

२४२. मरुतः प्राणेन (अवकीर्णः प्रविशति )। जै १,३६२ ।।

२४३. मरुतः प्राणैः ( सहास्मिन् कर्मण्यागच्छन्तु ) । तैआ २,१८, १ ।

२४४, मर्त्यानि हीमानि शरीराणीं  अमृतैषा देवता ( प्राणः ) । ऐआ २, १, ८ ।

२४५. मित्रो नवाक्षरया नव प्राणानुदजयत् । मै १, ११, १०; काठ १४, ४ ।।

२४६. मुखत एव प्राणं दधाति । काठ २१, ५ ।।

२४७. यः प्राणः स वरुणः । गो २,४,११ ।।

२४८. यत्तृतीये ऽहन्प्रवृज्यते । वायुर्भूत्वा प्राणानेति । तैआ ५, १२, १ ।।

२४९. यत्रायं पुरुषो म्रियते ऽ उदस्मात्प्राणाः क्रामन्त्याहो नेति, नेति होवाच याज्ञवल्क्यो ऽत्रैव ( प्राणाः ) समवनीयन्ते । माश १४, ६, २, १२ ।।

यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातम्प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते - माश १४, ६, २, १३

२५०. यत्रैतत्पुरुषः सुप्तः स्वप्नं न कञ्चन पश्यति, अथास्मिन् प्राण एवैकधा भवति । शांआ ५, ३; कौउ ३,३ ।।

२५१. यत्सत्यमिति प्राणः सः । जै ३,३६० ।

२५२. यथा शालावंशे सर्वे ऽन्ये वंशाः समाहिताः स्युरेवमेवैतस्मिन् प्राणे सर्व आत्मा समाहितः । शांआ ८, १ ।।

२५३. यदि वालखिल्याः ( ऋचः ) प्राणानस्यांतरियात् । ऐ ५, १५ ।

स एष प्राण एव यल्लोकम्पृणा । तया सर्वमात्मानं प्रच्छादयति सर्वस्मिंस्तदात्मन्प्राणं दधाति - माश ८, ७, २,१४

२५४, यदु वै प्राणो ऽङ्गं नाभिप्राप्नोति शुष्यति वावैतन्म्लायति वा । माश ८, ७, २,१४

२५५. यदेकपात्रा ( द्विदेवत्याः ) गृह्यन्ते तस्मादेको ऽन्तरतः प्राणो द्विपात्रा हूयन्ते तस्माद् द्वौ द्वौ बहिष्ठात् प्राणाः । तैसं ६, ४, ९,३ ।

२५६. प्राण एवेन्द्रः। जिह्वा सरस्वती। नासिके अश्विनौ। यद्वै प्राणेनान्नमात्मन्प्रणयते तत्प्राणस्य प्राणत्वम् । माश १२, ९, १, १४ ।।

२५७. या वै सा वागग्निरेव स यत्तच्चक्षुरसौ स आदित्यो यत्तन्मन एष
स चन्द्रमा यत्तच्छ्रोत्रं दिश एव तदथ यः स प्राणोऽयमेव स वायुर्योऽयं पवते। माश १०, ३, ३, ७ (तु. जैउ १,९,२,१) ।

२५८. यावद्वै पुरुषः प्राणिति, न तावद् भाषितुं शक्नोति, वाचं तदा प्राणे जुहोति...यावद्वै पुरुषो भाषते न तावत् प्राणितुं शक्नोति, प्राणं तदा वाचि जुहोति । शांआ ४, ५; कौ २,५।।

२५९. ये ऽवाञ्चः (प्राणाः पुरुषस्य) तत्तृतीयसवनम् । कौ २५, १२ ।।

२६०. ये सप्त शीर्षण्याः प्राणा आसँस्ते सप्तर्षयो ऽभवन् । काठसंक ८६ : २ ।

२६१. यो ऽयमनिरुक्तः प्राणः स सुरूपकृत्नुः । कौ १६, ४ ।।

२६२. तस्य प्रष्टिवाहनोऽश्वरथो दक्षिणा । त्रयोऽश्वा द्वौ सव्यष्टृसारथी ते पञ्चप्राणा यो वै प्राणः स वातस्तद्यदेतस्य कर्मण एषा दक्षिणा तस्मात्पञ्चवातीयं नाम। माश ५, २, ४, ९ (तु. जै १,२४९) ।

२६३. लेखासु हीमे प्राणाः । माश ७, २, २, १८ ।

२६४. वाक् च वै प्राणश्च मिथुनम् । माश १, ४, १, २ ।।

२६५, वाक्पूर्वरूपं मन उत्तररूपं प्राणः संहिता । ऐआ ३, १, १ ।।

२६६. वाक् (वातं । तैआ.]) प्राणः । मै ४, ६,४; तैआ ३,४,१ ।।

२६७. वाक् प्राणानामुत्तमा । काठ १९, १०; क ३०, ८ ।

२६८. वाक् प्राणेन संहिता। ऐआ ३,१,६ ।।

२६९. वागसि जन्मना वशा, सा प्राणं गर्भमधत्थाः । मै २,१३,१५ ।

२७०. वाग्वा अक्षरम् । तस्यै प्राण एवांशुः । जै १,११५।।

२७१, वाग्वा ऽइदं कर्म प्राणो वाचस्पतिः । माश ६, ३, १, १९ ।

२७२. वाग्वा एषा प्रतता यद् द्वादशाहः । तां सन्तनिनैव संतन्वन्ति । प्राणा ह खलु वै सन्तनयः । प्राणैर्वाक् सन्तता। तद् यत् सन्तनि भवति प्राणानां एव सन्तत्यै, वाचं प्राणैः सन्तनवामेति ।। जै ३,११९ ।।

२७३. वाग्वै माता, प्राणः पुत्रः । ऐआ ३, १, ६ ।।

२७४, वाग्वै रथन्तरस्य रूपं प्राणो बृहतः । शांआ ७, २० ।

२७५. वाचस्सत्यं यत् प्राणः । जै २, ४२५।।

२७६. वातं प्राणमन्ववसृजतात् । मै ४, १३, ४ ।।

२७७. वातं प्राणेन (प्रीणामि) । मै ३, १५, २ ।।

२७८. वायुदेवत्यो वै प्राणः । तैसं ६, ३, ७, ४ ।।

२७९. वायुना प्राणाः । काठ ३५,१५; क ४८, १३ । ।

२८०. वायुर्भूत्वा (प्रजापतिः) प्रजानां प्राणो ऽभवत्। जै १,३१४ ।।

२८१. वायुर्मे प्राणे श्रितः । तै ३, १०, ८, ४ (तु. शांआ १०,१) ।।

अध्वर्यवे ददद् ब्रूयाद् अध्वर्यो प्राणं ते ददानि, तम् अनेन निष्क्रीणान्य्, अध्वर्यो इदं ददानीति - यद् दास्यन् स्यात्। स यत् प्राणं ददाति - वायुर् वै प्राणो - वायुम् एवास्मै तद् ददाति। तद् यावद् वायुर् न क्षीयते, तावद् अस्य तद् दत्तं न क्षीयते। - जै २,५४

२८२. वायुर्वै (°र्हि । ऐ.]) प्राणः । ऐ २,२६; ३,२; कौ ८, ४; जै २,५४; जैउ ४,११, १, ११ ।

२८३. वालमात्रादु हेमे प्राणा असम्भिन्नास्ते यद्वालमात्रादसम्भिन्नास्तस्माद्वालखिल्याः । माश  ८,३,४,१ (तु. कौ ३०,८) ।

किं छन्दः का देवता यस्मादिदं प्राणाद्रेतः सिच्यत इत्यतिच्छन्दाश्छन्दः प्रजापतिर्देवता - १०.३.२.[७]

किं छन्दः का देवता योऽयमवाङ्प्राण इति यज्ञायज्ञियं छन्दो वैश्वानरो देवता - १०.३.२.[८]

२८४. किं छन्दः का देवता प्राणा इति । विच्छन्दाश्छन्दो वायुर्देवता प्राणाः । माश १०,३,२,१२

२८५, विधृता हीम उपरिष्टात् प्राणाः । मै ३,८,८ ।।

२८६. विश्वेषामहं देवानां देवयज्यया प्राणानां सायुज्यं गमेयम् । काठ ५,१ ।

२८७. वीर्यं ( +वै [मै.J) प्राणः । मै १,९,३; काठ ९,११ ।

२८८, यद् व् एवैते त्रिवृत्पञ्चदशे स्तोत्रे व्यतिषक्ते भवतो - व्यतिषक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। अथो प्राणा वै स्तोमा, व्यतिषक्ता वा इमे प्राणा अनिर्मार्गाय।। जै २,१३३

२८९. सैषा सर्वेषां प्राणानां योनिर्यदुलूखलं शिरो वै प्राणानां योनिः । माश ७,५,१,२२ ।।

२९०. नव वै पुरुषे प्राणाः। प्राणानाम् एवैषा संमा प्राणानाम् ऋद्धिः। तस्मिन् गायत्रसामाध्यूहन्ति। प्राणो वै गायत्रसाम। प्राणम् एव तच् छीर्षन् दधति। तस्माच् छीर्षन् प्राणो हितः।। जै २,४१५।।

२९१. षट् प्राणाः । काठ २६,१०; क ४१,८; ४२,१; (तु. माश ६,७,१,२०)।

२९२. षडृतुनेति यजन्ति प्राणमेव तद्यजमाने दधति । कौ १३,९ ।।

२९३. षड् वाऽ इमे शीर्षन्प्राणाः । माश १२,९,१,९; १४,१, ३, ३२ ।

२९४. स ( ब्रह्मविद् ) आगच्छत्यमितौजसं ( ब्रह्मलोकस्थं ब्रह्मणः ) पर्यङ्कं स प्राणस्तस्य भूतञ्च भविष्यञ्च पूर्वौ पादौ, श्रीश्चेरा चापरौ ( पादौ )••• तस्मिन् ( पर्यङ्के ) ब्रह्माऽऽस्ते । शांआ ३,५।।

२९५ स एषो ऽश्मा ऽऽखणं यत्प्राणः । स यथा अश्मानमाखणमृत्वा लोष्टो विध्वंसत एवमेव स विध्वंसते य एवं विद्वाँसमुपवदति । जैउ १, १८,५,७-८ ।

२९६. स ( प्रजापतिः ) त्रिवृतमेवायतनमचायत् प्राणां  स्ततः प्रजा असृजत । काठ ९, ११ ।।

२९७. संतृण्णा हि परः (अन्तरतः । तैसं.]) प्राणाः । तैसं ६,२,११,२; मै ३,८,८ ।।

२९८. सप्त (+वै मुख्याः । जै २,३०१) प्राणाः । काठ ३०,५; ३७,१६ (तु. जै १,१३१ २,२२५; ३०१,३४७; ३८५; ३,६८; ८६) ।

२९९. सप्त वालखिल्याः पुरस्तादुपदधाति सप्त पश्चात् , सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ । तैसं ५, ३, २, ५ ( तु, तैसं ५, १,७, १; २, ६, ३; काठ ८, १; १९, ६; तैआ ५, ४,४) ।

३००. सप्त वै शीर्षन् प्राणाः (+वागष्टमी::: सा वाक् समानायतना प्राणैः सत्यननुषक्ता [ऐआ.J) । मै ३, १, ७; ४, ८, १०; ऐ १, १७; तै १, २,३,३; ऐआ १,५,२ (तु. मै १,६, ९; तां २,१४,२; २२,४,३; माश ९, ५,२,८)।

३०१. सप्त हस्तास इति, ••• येषु ( सप्तसु लोकेषु ) चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त । काठसंक २५ : २-३.

३०२. समाना हीमे प्राणाः । मै ४, ८, ४ ।

३०३. स यः प्राणस्तत्साम । जैउ १, ८, १, १० ।।

३०४. स ( वायुः ) यत्पुरस्ताद्वाति प्राण एव भूत्वा पुरस्ताद्वाति…. प्राणो हि प्रियः प्रजानाम् ।…मातरिश्वैव भूत्वा दक्षिणतो वाति ।…. पवमान एव भूत्वा पश्चाद्वाति ।….सवितैव भूत्वोत्तरतो वाति । । तै २, ३, ९, ४-५ ।।

३०५. मनो हि रेतस्येति ब्रूयात्। नो मनसो बर्हीयः कि चनास्ति। अथो सर्वे प्राणा मनो ऽभिसंपन्नाः।। जै १, ३१६ ।।

३०६. सर्वे ह वा ऽ एते स्वपतो ऽपक्रामन्ति प्राण एव न । माश ३, २, २, २३ ।

३०७. स वा अयं त्रेधा विहितः प्राणः, प्राणो ऽ पानो व्यान इति । कौ १३, ९ ।

३०८. सा ह वागुवाच ( हे प्राण ) यद्वा ऽ अहं वसिष्ठास्मि त्वं तद्वसिष्ठो ऽसीति । माश १४, ९,२, १४ ।

३०९. सुषदा पश्चात् । देवस्य सवितुराधिपत्ये । प्राणं मे दाः । तैआ ४,५,३ ।।

३१०. सोमा इन्द्रो वरुणो मित्रो अग्निस्ते देवा धर्मभृतो धर्मं धारयन्त्वित्येते वै देवा धर्मभृतो यदिमे प्राणाः । मै ४,४,२ ।।

३११. सोऽयं ( वायुः ) पुरुषेऽन्तःप्रविष्टस्त्रेधाविहितः प्राण उदानो व्यान इति । माश ३, १,३,२० ।।

३१२. सोऽस्य (इन्द्रस्य सोमः) विष्वङ्ङेव प्राणेभ्यो दुद्राव मुखाद्धैवास्य न दुद्रावाथ सर्वेभ्योऽन्येभ्यः प्राणेभ्यो ऽद्रवत् । माश १,६,३,७ ।।

३१३.पशवो वै सोमः प्राणाय त्वेत्य् उप नह्यति प्राणम् एव पशुषु दधाति व्यानाय त्वेत्य् अनु शृन्थति व्यानम् एव पशुषु दधाति तस्मात् स्वपन्तम् प्राणा न जहति ॥ । तैसं ६,१,९,७

३१४. वाग् वा अग्निहोत्री। तस्यै मन एव वत्सः।….. हृदयमेव मेथ्युपदोहनी प्राणो रज्जुः । प्राणेनैव वाक् च मनश्चाभिहिते । रज्ज्वा वै वत्सं च मातरं चाभिदधाति । जै १,१९

सोमोन्मानकथनम् -- अम्̇शून् अप गृह्णाति त्रायत एवैनम् प्राणा वा अम्̇शवः पशवः सोमः । अम्̇शून् पुनर् अपि सृजति प्राणान् एव पशुषु दधाति द्वौद्वाव् अपि सृजति तस्माद् द्वौद्वौ प्राणाः ॥ । तैसं ६.४.४.४, मै ४.५.५

प्राणो वा अकूध्रीच्यः । कौ ८.५

एष (अग्निः) उ वा इमाः प्रजाः प्राणो भूत्वा बिभर्ति तस्माद्वेवाह भारतेति (भरतवत् [माश १,५,१,८]) । माश १,४, २,२ ।।

तदग्निर्वै प्राणः । जैउ ४,११,१,११ ।।

ते वाऽएते प्राणा एव यद् अग्नयः (आहवनीयगार्हपत्यान्वाहार्यपचनाख्याः) । माश २,२,२,१८ ।

प्राणो वा (+इन्द्रतमः । तैआ.) अग्निः । माश २, २, २, १५; ९,५, १, ६८; तैआ ५,८,१२ ।

उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश् चक्षुः वातः प्राणः (+तदयमग्निः [ मै १, ६,२]) । तैसं ७, ५,२५, १; मै ३, ९,७।।

प्राण एवाग्निष्टोमस्तोमः – जै २.४९

प्राणो वै यमोऽङ्गिरस्वान् पितृमान् – तैआ ५.७.११

अधिपतिर् असि प्राणाय त्वा प्राणम्  जिन्वेत्य् आह प्रजास्व् एव प्राणान् दधाति। तैसं ३.५.२.४-५, ४.४.१.२०३, काठ ३७.१७

अध्वर्युः प्रथमस् सर्पति प्राणो यज्ञस्य।– जै १.८५

छन्दोभिधेष्टकाभिधानम्-- अनुष्टुभ उप दधाति प्राणा वा  अनुष्टुप् प्राणानाम् उत्सृष्ट्यै– तैसं ५.३.८.२,

प्राणो  वा अनुष्टुप् – काठ २१.३, क ३१.१८

इयं वाव प्रथमा रेतःसिग् वाग् वा इयं तस्मात् पश्यन्तीमाम् पश्यन्ति वाचं वदन्तीम्
अन्तरिक्षं द्वितीया प्राणो वा अन्तरिक्षं तस्मान् नान्तरिक्षम् पश्यन्ति न प्राणम् असौ तृतीया चक्षुर् वा असौ तस्मात् पश्यन्त्य् अमूम् पश्यन्ति चक्षुः । यजुषेमां च
अमूंचोप दधाति मनसा मध्यमाम् एषां लोकानां क्लृप्त्यै ।– तैसं ५.६.८.५, जै १.३०७, माश ५.५.१.२६

अन्नं सप्तहोता। स प्राणस्य प्राणः। तैआ ३.७.३

अन्नं हि प्राणः – माश २.२.१.६, ३.८.४.८, ४.३.४.२५

तदेतद्वैश्वामित्रमुक्थं तदन्नं वै विश्वम्प्राणो मित्रम् – जैउ ३.१.३.६

प्राणो वा अन्नम्। शरीरमन्नादम् – तैआ ९.७, तैउ ३.७

आपो वै प्राणाः – काश ४.८.२.२, माश ३.८.२.४, जैउ ३.१०.९, तैर १.२६.५

प्राणा वा आपः – तां ९.९.४, तै ३.२.५.२,

अथो यदेवैनमेतदस्माल्लोकात्प्रेतं चित्यामादधत्यथो या एवैता अवोक्षणीया आपस्ता एव स ततोऽनुसम्भवति प्राणम्वेव प्राणो ह्यापः  तं ह वा एवंविदुद्गाता यजमानमोमित्येतेनाक्षरेणादित्यम्मृत्युमतिवहति वागित्यग्निं हुमिति वायुम्भा इति चन्द्रमसम् – जैउ ३.२.५.९

अभिषेकः -- यदाहानिभृष्टमसीति वाचो बन्धुरिति  यावद्वै प्राणेष्वापो भवन्ति तावद्वाचा वदति – माश ५.३.५.१६

अपानेन वै प्राणो धृतः – मै ४.५.६

अपानेन ह्ययं यतः प्राणो न पराङ् भवति  - ऐआ २.१.८

अहरेव प्राणो रात्रिरपानः – ऐआ २.१.५

ऊर्ध्वं वै नाभ्याः प्राणोऽवाचीनमपानः – काठ २६.१, क ४०.४

अग्नीषोमीय पुरोडाशः-- जञ्जभ्यमानाद् अग्नीषोमौ निर् अक्रामताम् प्राणापानौ वा एनं तद् अजहिताम् प्राणो वै दक्षो ऽपानः क्रतुस् तस्माज् जञ्जभ्यमानो ब्रूयात् । मयि दक्षक्रतू इति प्राणापानाव् एवात्मन् धत्ते– तैसं २.५.२.४

बहिर्वै सन्तं प्राणमुपजीवन्त्यन्तः सन्तमपानम् – जै २.३९४

इडाप्राशित्रभक्षौ -- अप वा एतस्मात् प्राणाः क्रामन्ति यः प्राशित्रम् प्राश्नाति । अद्भिर् मार्जयित्वा प्राणान्त् सम् मृशते । अमृतं वै प्राणा अमृतम् आपः प्राणान् एव यथास्थानम् उप ह्वयते ॥ – तैसं २.६.८.७, गो २.१.१३, माश ७.४.२.२१

प्राणा वा अमृताः – तैआ ५.९.१०

प्राणेन ह्येवास्मिँल्लोकेऽमृतत्वमाप्नोति – शांआ ५.२, कौउ ३.२

अहोरात्रे एव सरः। ते हीदं सर्वं सरतः। आदित्य एवायनम्। स ह्येषु लोकेष्वेति। इत्यधिदेवतम्। अथाध्यात्मम्। ... वाग् एव सरः। वाचा हि पुरुषस् सरति। प्राण एवायनम्। स ह्यस्मिन् सर्वस्मिन्नेति – जै २.२९

प्राणो वाऽअर्कः – माश १०.४.१.२३, ६.२.७

प्राणो वाऽअर्णवः – माश ७.५.२.५१

प्राणा वा अवकाशाः – माश १४.१.४.१, कौ ८.६

प्राणा अवकाशाः माश १४.२.२.५१

प्राणा वा अशनम् – मै ३.६.२

प्राणश्च मेऽश्वमेधश्च मे (यज्ञेन कल्पताम्) – तैसं ४.७.९.१

तस्या एतस्यै वाचः प्राणा एवाऽसुः। एषु हीदं सर्वमसूतेति  - जैउ १.१३.१.७

स एष गिरिश्चक्षुः श्रोत्रं मनो वाक्प्राणस्तं ब्रह्मगिरिरित्याचक्षते ....स एषोऽसुः स एष प्राणः। स एष भूतिश्चाभूतिश्च -- ऐआ २.१.८

प्रेति ( प्र इति) वै प्राण एति (आ इति ) उदानः – माश १.४.१.५

रेतो वा एतद् अग्रे प्रविशति यद् गायत्रम्। ततो ऽन्यान्य् अंगानि विक्रियन्ते। प्राणो वा एष प्रविशति यद् गायत्रम्। तम् अन्यान्य् अंगान्य् उपसंसीदन्ति। स इमान् प्राणानाकाशानभिनिर्मन्थति – जै २.१८

प्राण आघारः – मै १.४.१२, ४.१.१४, तै ३.३.७.९

प्राणेभ्यो वा आत्मा सम्भवति आत्मनो वा प्राणाः(आत्मा देहः, मध्यदेहः) – जै १.३५३

क्षेत्रकर्षणम् --  असौ वा आदित्यः प्राणः प्राणम् एवैनान् अनूत् सृजति – तैसं ५.२.५.४

आदित्यो वै प्राणः – जैउ ४.११.१.११

उद्यन्नु खलु वा आदित्यः सर्वाणि भूतानि प्रणयति तस्मादेनं प्राण इत्याचक्षते – ऐ ५.३१

तदसौ वा आदित्यः प्राणः  जैउ ४.११.१.९

प्राणो ह्येष य एष (आदित्यः) तपति – ऐआ २.२.१, ३

आदित्यधामानो वा उत्तरे प्राणा अङ्गिरोधामानो अधरे – मै ३.२.९

आदित्यधामानो वा अन्ये प्राणा अङ्गिरोधामानोऽन्ये – काठ २०.११

एते वै देवा आयुष्मन्तश्चायुष्कृश्च यदिमे प्राणाः – मै २.३.५

अदाभ्यांशुग्रहमन्त्राणां ब्राह्मणम् -- यो ऽम्̇शुं गृह्णाति । आ  नः प्राण एतु परावत इत्य् आह । आयुर् एव प्राणम् आत्मन् धत्ते । अमृतम् असि प्राणाय त्वेति हिरण्यम् अभि व्यनिति । अमृतं वै हिरण्यम् आयुः प्राणः । अमृतेनैवायुर् आत्मन् धत्ते– तैसं ३.३.४.३, ६.६.१०.३

ध्रुवमसि पृथिवीं दृंह आयुर्देहि प्राणं देहि – काठ १.७, क १.७

प्राणो वा आयुः – ऐ २.३८

प्राणो वा आयुः यावद्यस्मिञ्शरीरे प्राणो वसति तावदायुः – शांआ ५.२, कौ ३.२

यावदायुस्तावान् प्राणः – मै  ४.६.६

प्राण एवास्येध्मः – माश ११.२.६.२

तमिन्द्र उवाच (विश्वामित्रम्) प्राणे वा अहमस्म्यृषे प्राणस्त्वम् प्राणः सर्वाणि भूतानि – ऐआ २.२.३

प्राणा इन्द्रियाणि – काठ ८.१, तां २.१४.२, २२.४.३

अयं ह वा अस्यैषोऽनिरुक्तः प्राणो यदुक्थ्यः – काश ५.२.३.१

ते य एवेमे मुख्याः प्राणा एत एवोद्गातारश्चोपगातारश्च – जैउ १.६.३.५

प्राण उद्गाता – कौ १.७, गो २.५.४, तैआ १०.६४.१

प्राणमुद्गीथम् (प्रजापतिरकरोत् ) – जैउ १.३.३.५

स एष वशी दीप्ताग्र उद्गीथो यत्प्राणः – जैउ २.२.२.१

शिरो वा एतद् यज्ञस्य यद् धविर्धानम् प्राणा उपरवाः । हविर्धाने खायन्ते तस्माच् छीर्षन् प्राणाः । अधस्तात् खायन्ते तस्माद् अधस्ताच् छीर्ष्णः प्राणाः । रक्षोहणो वलगहनो वैष्णवान् खनामीत्य् आह वैष्णवा हि देवतयोपरवाः । असुरा वै निर्यन्तो देवानाम् प्राणेषु वलगान् न्य् अखनन् तान् बाहुमात्रे ऽन्व् अविन्दन् तस्माद् बाहुमात्राः खायन्ते । इदम् अहं तं वलगं उद् वपामि  यं नः समानो यम् असमानो निचखानेत्य् आह द्वौ वाव पुरुषौ यश् चैव समानो यश् चासमानः ।- तैसं ६.२.११.१, मै ३.८.८, ४.६.६, काठ २५.९, क ४०.१

प्राणो ह वाऽअस्य (यज्ञस्य ) उपांशुः -  माश ४.१.१.१

यदुपांशु स प्राणः... तत् (उपांशु) तिर इव, तिर इव ह्यशरीरमशरीरो हि प्राणः – ऐआ २.३.६

वाग्वा उर्वशी, पुरूरवा असीति प्राण एव तन्मिथुनम् – मै ३.९.५

प्राणा वा उष्णिक्ककुभौ – तां ८.५.५

य ऊष्माणः स प्राणः – ऐआ २.२.४

प्राण ऊष्मरूपम् – ऐआ ३.२.१, शांआ ८.१

ऋचो वै ब्रह्मणः प्राणः। - काठसंक ४.१

यदि सामिताम्ये मध्य ऋचो वान्यान्। प्राणो वा ऋक् प्राणो गायत्रम्। प्राणस्यैतन् मध्ये प्राणं समानयति॥ – माश ७.५.२.१२, जै १.११२

प्राणा वा ऋतुयाजाः ऐ २.२९, कौ १३.९, गो २.३.७

प्राणा उ वा ऋषय़ः – माश ८.४.१.५

प्राणा ऋषयः – माश ७.२.३.५,

ऐन्द्रः प्राणो...ऐन्द्रो व्यानो... ऐन्द्रोऽपानो अङ्गे अङ्गे निदीध्यत् – काठ ३.७, क २.१४

द्वादशरात्रकथनम् -- वाग् वा आग्रयणः । वाग् अष्टमम् अहर् ।…प्राण ऐन्द्रवायवः प्राणो नवमम् अहर् । तस्मान् नवमे ऽहन्न् ऐन्द्रवायवो गृह्यते – तैसं ७.२.६.१, ७.२.८.४, काठ ३०.३, क ४६.५

तास्व् ओकोनिधनं वैतहव्यम्। ओकोनिधनेन वै वैतहव्येन देवा असुरान् ओकसओकसो ऽनुदन्त। .....प्राणा ह खलु वा ओकः – जै १.२१४

प्राणो वाव कः – जैउ ४.११.२.४

प्राणो वै ककुच्छन्दः – माश ८.५.२.४

प्राणा वै गयाः – माश १४.८.१५.७

गायत्रो हि प्राणः – तैआ ५.४.३

प्राणो गायत्रम् – जै १.१११, ११२, २.२६, तां ७.१.९, ३.७, जैउ १.१२.३.७ (तु. जै २.१८)

प्राणो वा एष प्रविशति यद् गायत्रम् –(छन्दः)- जैब्रा २.१८

अयं पुरो भू, स्तस्य प्राणो भौवायनो , वसन्तः प्राणायनो , गायत्री वासन्ती, गायत्र्या गायत्रम् , गायत्रादुपांशु , उपांशोस्त्रिवृत् , त्रिवृतो रथन्तरम् , वसिष्ठा ऋषिः, प्रजापतिगृहीतया त्वया प्राणं गृह्णामि, - मै २.७.१९

मनो वै मनुष्यधुर् आपो देवधुरः। ......प्राणो वै मनुष्यधूर् वायुर् देवधूः। गायत्र्यां प्रस्तुतायां प्राणेन वायुं सन्दध्यात् – जै १.२७०

तेषां (असुराणां देवाः) प्राणमेव गायत्र्याऽवृञ्जत जै १.९९

प्राण एव गायत्री – जै २.५८

प्राणं गायत्र्या (समीरयति) – जै १.२५३

प्राणे गायत्री – क ४६.५, जै १.२६९, २.१८१, ४२५, तां ७.३.८, १६.३.६, माश ६.२.१.२४, ६.२.७, १०.३.१.१

प्राणो वै गायत्री मै २.४.४, ३.४.४, ४.६.६, काठ २८.१, कौ १५.२, १६.१, १७.२, जै १.१०२, २.८९, ३११, ३४६, ३५३, माश ६.४.२.५, ष ३.७

प्राणो वै गार्हपत्यो ऽपान आहवनीयः। संविदानौ वा इमौ प्राणापानाव् अन्नम् अत्त इति वदन्तः। – जै १.६१

प्राणा वै गुदः- मै ३.१०.४, माश ३.८.४.३

स ब्रूयाद् अन्नं वै साम। अन्नम् ऋक्। प्राणा गृहाः। अन्यद् अन्यद् वै प्राणेभ्यो ऽन्नम् आहरन्ति। ..... प्राणा एव साम। तन् मूलम्।.... वाग् एवर्क्। तन् मूलम्। – जै २.३९

प्राणा वा एत इतरे ग्रहा, आयुर्ध्रुवः (ग्रहः) – मै ४.६.६

प्राणा वै ग्रहाः – काठ ३०.२, क ४६.५, माश ४.२.४.१३, ५.९.३ , ११

प्राणा वै ग्रावाणः माश १४.२.२.३३

मारुता वै ग्रावाणः – तां ९.९.१४

यस्य कलश उपदस्यति कलशमेवास्योपदस्यन्तं प्राणोऽनूपदस्यति प्राणो हि सोमः..... यस्य नाराशंस उपवायति नाराशंसमेवास्योप+वायन्तं प्राणोऽनूपदस्यति प्राणो हि सोमः – तां ९.९.१

तदग्निर्वै प्राणो वागिति पृथिवी वायुर्वै प्राणो वागि-त्यन्तरिक्षमादित्यो वै प्राणो वागिति द्यौर्दिशो वै प्राणो वागिति श्रोत्रं चन्द्र मा वै प्राणो वागिति मनः पुमान्वै प्राणो वागिति स्त्री – जैउ ४.११.१.११

प्राणा वै जातवेदाः स हि जातानां वेद – ऐ २.३९

प्राणो वै ज्योतिः – माश ८.३.२.१४

समिधो यजति प्राणा वै समिधः प्राणा हीदं सर्वं समिन्धते यदिदं किंच प्राणानेव तत्प्रीणाति प्राणान्यजमाने दधाति तनूनपातं यजति प्राणो वै तनूनपात्स हि तन्वः पाति प्राणमेव तत्प्रीणाति प्राणं यजमाने दधाति – ऐ २.४

प्राणा वै त्रिवृतः। प्राणैर् वा एते व्यृध्यन्ते ये मृताय कुर्वन्तीति। तद् यत् त्रिवृतः पवमाना भवन्ति प्राणैर् एव तत् समृध्यन्ते। – जै १.३४६, तां २.१५.३, ३.६.३

प्राणा वै दक्षाः – जै १.१५१

सुदक्षस् सुविताय नव्यस इति प्राणा वै दक्षः। प्राणान् एवास्मिंस् तद् दधति । - जै ३.६२

आ ते दक्षं मयोभुवम् इति। प्राणा वै दक्षाः। प्राणान् एवास्मिंस् तद् अदधात्। - जै ३.९५

अथ दक्षोणिधनम्। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् दक्षोणिधनेनैव संदक्षयन्ति। प्रजापतिः प्रजा असृजत। ता अप्राणा असृजत। सो ऽकामयत - प्राणवतीर् म इमाः प्रजा स्युर् इति। स एतत् सामापश्यत्। तेनैना दक्षाया इत्य् एवाभ्यमृशत्। प्राणा वै दक्षाः। प्राणान् एवासु तद् अदधात्। - जै ३.१९२

प्राणो वै दशहोता – मै १.९.५, तै २.२.१.६

प्राणो वै दिवः – माश ६.७.४.३

प्राणोऽसौ लोकः माश १४.४.३.११

अथ हैतत्प्राणस्यैव रेतो निर्मितं यद् दिवाकीर्त्यम् – जै २.३६

प्राण एव दिवाकीर्त्यम् । चक्षुषी भ्राजाभ्राजे। श्रोत्रं विकर्णम्। वाग् दशस्तोभम्। – जै २.३७

दिशो वै प्राणः जैउ ४.११.१.११

प्राणा दीक्षा – तै ३.८.१०.२, माश १३.१.७.२

एते वै देवा मनुजाता मनोयुजो यदिमे प्राणाः – मै ३.६.९

तस्मात्प्राणा देवाः – माश ७.५.१.२१

प्राणा वै देवा अपाव्याः – तै ३.८.१७.५

प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति – माश ७.१.१.२४

दण्डादानादिकरणपूर्वकनियमानुष्ठानविधिः-- होतव्यं दीक्षितस्य गृहा३इ न होतव्या३म् इति हविर् वै दीक्षितो यज् जुहुयाद् यजमानस्यावदाय जुहुयाद् यन् न जुहुयाद् यज्ञपरुर् अन्तर् इयाद् ये देवा मनोजाता मनोयुज इत्य् आह प्राणा वै देवा मनोजाता मनोयुजस् तेष्व् एव परोऽक्षं जुहोति तन् नेव हुतं नेवाहुतम् । – तैसं ६.१.४.५, काठ २३.५

प्राणा वै देवा मरीचिपाः। तानेव प्रीणाति – काठ २७.१, क ४२.१०

प्राणा वै देवा वयोनाधाः प्राणैर्हीदं सर्वं वयुनं नद्धमथो छन्दांसि वै देवा वयोनाधाश्छन्दोभिर्हीदं सर्वं वयुनं नद्धम् – माश ८.२.२.८

प्राणेन वै देवा अन्नमदन्ति। अग्निरु देवानां प्राणः – माश १०.१.४.१२

प्राणैर् वै प्रजाः पशवः परिगृहीता उपतिष्ठन्ते।....प्राणैर्वै देवा स्वर्गं लोकमायन् – जै २.३०१, २.३४७

इडाप्रशंसा-- काम् इडाम् उपाह्वथा इति ताम् उपाह्व इति होवाच या प्राणेन देवान् दधार व्यानेन मनुष्यान् अपानेन पितॄन् इति छिनत्ति सा न छिनत्ती3 इति छिनत्तीति होवाच शरीरं वा अस्यै तद् उपाह्वथा इति होवाच गौर् वै अस्यै शरीरम् । गां वाव तौ तत् पर्य् अवदताम्.- तैसं १.७.२.१

ता एता देवताः प्राणापानयोरेव निविष्टाश्चक्षुः श्रोत्रं मनो वागिति, प्राणस्य ह्यन्वपायमेता अपियन्ति – ऐआ २.३.३

प्राणा वै देवताः मै २.३.५, काठ ११.८

उख्यधारणम् -- देवा अग्निं धारयन् द्रविणोदा इत्य् आह प्राणा वै देवा द्रविणोदाः । अहोरात्राभ्याम् एवैनम् उद्यत्य प्राणैर् दाधार । - तैसं ५.१.१०.४, मै ३.२.१, काठ १९.११, क ३१.१

प्राणा द्वन्द्वम् – काठ २६.१०, क ४१.८, ४२.५

प्राणा वै द्विदेवत्याः (ग्रहाः) – मै ४.६.१, काठ २७.५, ऐ २.२८

प्राणा वै धवित्राणि – माश १४.३.१.२१, तैआ ५.४.१३

प्राणो धाय्या – कौ १५.४, जैउ ३.१.४.३

तत्त्वाय सविता धिय इति । मनो वै सविता प्राणा धियो – माश ६.३.१.१३

प्राणा वै धुरः – तां १४.९.१८

प्राण एवेन्द्रः। जिह्वा सरस्वती। नासिके अश्विनौ। यद्वै प्राणेनान्नमात्मन् प्रणयते। तत् प्राणस्य प्राणत्वम्। ....नासिकेऽउ वै प्राणस्य पन्थाः – माश १२.९.१.१४

मध्यं वा एतद्यूपानां यदग्निष्ठो मध्यमेतत्प्राणानां यन्नासिके स्व एवैनं तदायतने दधाति – माश १३.४.४.६

कमग्निं चिनुते नाचिकेतमग्निं चिन्वानः। प्राणान् प्रत्यक्षेण – तैआ १.२२.१०.११

नामानि (प्राणस्य )दामानि – ऐआ २.१.६

मनो वै नितानः प्राणा मारुताः – मै ३.८.९

प्राणो वै नृषन्मनुष्या नरस्तद्योऽयं मनुष्येषु प्राणोऽग्निस्तमेतदाह – माश ६.७.३.११

वायुः पञ्चहोता। स प्राणः – तैआ ३.७.२

पतङ्गम् अक्तम् असुरस्य मायया इति । प्राणो वै पतङ्गः । वायुर् वै प्राणः । वायव्यम् एव स्वाहा कारम् एताभिर् अनुवदति । – कौ ८.४, जैउ ३.६.७.२, ८.२

अथ माध्यन्दिनः पवमानः। स ह स धनजिदेव स्तोमः। वायुरेव सः। स हीदं प्राणो भूत्वा सर्वं धनमजयत् – जै १.३१३

पवमाना वै देवयशसम्। ते ह ते प्राणा एव। त एनं देवेषु निवेदयन्ते। अभ्यावर्ता मनुष्ययशसम्। ते ह ते ऽपाना एव। त एनं मनुष्येषु निवेदयन्ते।  जै १.२७९

बृहद् ध तस्थौ रजसो विमाने पवमानो हरित आ विवेश॥......दिशो वै हरितः। ता अयं वायुः पवमान आविष्ट इति वाजसनेयः।.....प्रजा वै हरितः। ता अयं प्राणः पवमान आविष्टः। - जै २.२२९

वाग्वै रथंतरस्य रूपं प्राणो बृहत उभाभ्यामु खलु संहिता संधीयते वाचा च प्राणेन च  -- ऐआ ३.१.६

वाक्प्राणेन संहितेति कौण्ठरव्यः प्राणः पवमानेन पवमानो विश्वैर्देवैर्विश्वे देवाः स्वर्गेण लोकेन स्वर्गो लोको ब्रह्मणा सैषाऽवरपरा संहिता -- ऐआ ३.१.६

स वा अग्नये पवमानाय निर्वपति । प्राणो वै पवमानः प्राणमेवास्मिन्नेतद्दधाति तद्वेतयैवास्मिंस्तद्दधात्यन्नं हि प्राणोऽन्नमेषाहुतिः – मै ३.३.२, ५, काठ ८.८, ९, माश २.२.१.६

यद् अग्नये पवमानाय निर्वपति प्राणम् एवास्मिन् तेन दधाति यद् अग्नये  पावकाय वाचम् एवास्मिन् तेन दधाति यद् अग्नये शुचये । आयुर् एवास्मिन् तेन दधात्य् – तैसं २.२.४.२

क्षेत्रे सिकतादिवापः -- सप्त वै शीर्षण्याः प्राणाः प्राणाः पशवः प्राणैर् एवास्मै पशून् अवरुन्द्धे – तैसं ५.२.६.३, तै ३.२.८.९

प्राणो वै गुदः सोऽयं प्राङाततस्तमयं प्राणोऽनुसंचरति - ३.८.४.[३]

प्राणो वै पशुर्यावद्ध्येव प्राणेन प्राणिति तावत्पशुरथ यदास्मात्प्राणोऽपक्रामति दार्वेव तर्हि भूतोऽनर्थ्यः शेते – काश ४.८.४.३, माश ३.८.४.५

सप्तप्राणाः, प्राणेभ्योऽधि पशवः प्रजायन्ते  - काठ २०.४

पावमानेन त्वा स्तोमेनेत्याह प्राणमेवास्मिन्नेतेन दधाति। - तै २.३.११.३-४

ऽथ कस्मात् पवमाना अस्तोत्रियप्रतिपद इति। स ब्रूयात् प्राणा वै पवमानाः प्राणा उ पावमान्यः। तद् यत् पवमानान् पावमानीभिर् एवानुप्रतिपद्येरन् पराञ्च एव प्राणान् निर्मृज्युर् इति।- जै १.२७५

पिता मातरिश्वेत्याह प्राणो वै पिता प्राणो मातरिश्वा प्राणो रेतो रेतस्तत्सिञ्चत्यछिद्रा पदा धा इति रेतो वा अछिद्रम् – ऐ २.३८

एतावद् (व्याममात्रं) वै पुरुषे वीर्यम् (यावदस्य प्राणाः) – काठ २५.७

दश वै पुरुषे प्राणा आत्मैकादशः – काठ २९.९

यद् उ वै दशर्चम् दश वै पुरुषे प्राणाः दश स्वर्गा लोकाः प्राणांश् चैव तत् स्वर्गांश् च लोकान् आप्नोति – गो २.६.२

अथैते त्रयस् त्र्यहा भवन्ति। नवाहानि। नव वै पुरुषे प्राणाः। प्राणानाम् एवैषा सं मा प्राणानाम् ऋद्धिः।... अथैतद् वैराजपृष्ठं दशममहर्भवति। नाभिर्ह सा। - जै २.३६३

प्राण एष स पुरि शेते सं पुरि शेत इति पुरिशयं सन्तं प्राणं पुरुष इत्याचक्षते – गो १.१.३९

स हृदयमेवाग्रेऽभिघारयति । आत्मा वै मनो हृदयं प्राणः पृषदाज्यमात्मन्येवैतन्मनसि प्राणं दधाति तथैतज्जीवमेव देवानां हविर्भवत्यमृतममृतानाम् - माश ३.८.३.८

पात्नीवतग्रहकथनम् -- प्राणो वा एष यद् उपाम्̇शुः । यद् उपाम्̇शुपात्रेण प्रथमश् चोत्तमश् च ग्रहौ गृह्येते प्राणम् एवानु प्रयन्ति प्राणम् अनूद्यन्ति प्रजापतिर् वा एष यद् आग्रयणः प्राण उपाम्̇शुः पत्नीः प्रजाः प्र जनयन्ति यद् उपाम्̇शुपात्रेण पात्नीवतम् आग्रयणाद् गृह्णाति प्रजानाम् प्रजननाय तस्मात् प्राणम् प्रजा अनु प्र जायन्ते– तैसं ६.५.८.१

प्राणापानौ वै प्रजा अनु प्रजायन्ते – क ४२.२

प्राणात् प्रजाः प्रजायन्ते – क ४४.८

प्राणात् अधि प्रजाः प्रजायन्ते – मै ४.७.४

वातः प्राणस्तदयमात्मा .... यच्छा तोकाय तनयाय शं योः प्रजां मे यच्छ काठ ७.१४

प्रजापतिरेव संवत्सरः। तस्यैते प्राणा यत्पौर्णमास्यः। जै २.३९३

स एष वशी दीप्ताग्र उद्गीथो यत्प्राणः…..प्राणं वा अनु प्रजाः पशवः प्रभवन्ति – जैउ २.२.२.६

प्राणं वा अनु प्रजाः पशवः संभवन्ति – जैउ २.२.२.५

भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि। तैसं ३,२,१०,२

प्रजापतिर् एष यत् संवत्सरः। तस्यैते प्राणापाना यत् पौर्णमास्यश् चामावास्याश् च।.....प्राणभाजना वै पौर्णमासी अपानभाजनामावास्या। बहिर् वै सन्तं प्राणम् उपजीवन्त्य्, अन्तस् सन्तम् अपानम्। तद् यत् पौर्णमासीर् उत्सृजन्ते, बहिस् सन्तं प्राणम् उपजीवामान्तस् सन्तम् अपानम् इति। – जै २.३९४

प्राण-भृत् ( इष्टका-)-- १. प्राणा एव प्राणा अङ्गानि प्राणभृन्त्यङ्गानि हि प्राणान्बिभ्रति प्राणास्त्वेव प्राणा अन्नं प्राणभृदन्नं हि प्राणान्बिभर्ति । माश ८,१, ३,१

२. अन्नं प्राणभृदन्नं हि प्राणान्बिभर्ति । माश ८,१, ३, १ ।।

प्राणर्तु-

प्राण एव वसन्त आस। वाग् ग्रीष्मः। चक्षुर् वर्षाः। आर्द्रम् इव वै चक्षुर्, आर्द्रा इव वर्षाः। श्रोत्रं शरत्। मनो हेमन्तः। या इमाः पुरुष आपस् स शिशिरः। अथ देवर्तवः। वायुर् एव वसन्त आस। अग्निर् ग्रीष्मः पर्जन्यो वर्षाः। आदित्यश् शरत्। चन्द्रमा हेमन्तः। या अमूर् दिव्या आपस् स शिशिरः।। जै २,५१

प्राणाऽपान

१. अथ यः प्राणापानयोः सन्धिः स व्यानः । छाउ १,३,३ ।

२. किं खलु वै ते ऽस्तीति ( प्रजापतिरिन्द्रम् ) अब्रवीत् । स्तो न्वै म इमौ प्राणापानौ, इति  ( इन्द्रः प्रत्युवाच )। जै २,४०९ ।।

३. तावेवैतौ स्तोमावभवतां पराङ् च पूर्वाङ् च । तौ प्राणापानौ, ते ऽहोरात्रे, तौ पूर्वपक्षापर

पक्षौ, ताविमौ लोकौ ( द्यावापृथिव्यौ ), ताविन्द्राग्नी, तौ मित्रावरुणौ, तावश्विनौ, तद्

दैव्यं मिथुनं यदिदं किं च द्वन्द्वं तदभवताम् । जै ३,३३४ ।।

४. तौ मित्रावरुणौ प्राणापानौ पशुभ्यो ऽपाक्रामताम् अनुवी मन्यमानौ नावाभ्याम् अनुवीभ्यां पशवः प्राणिष्यन्तीति। । जै १,१०९

५. एष एवादित्यो भूत्वैतस्यां राजासन्द्याम् आस्ते। न ह ब्रूयात् -- सत्त्रम् आसिष्य इति।…द्वे ह वाव देवते सत्त्रमासाते प्राणापानावेव । जै २, २७

६. पुरस्ताद्वै नाभ्याः प्राणः, पश्चादपानः एतावान् वै पशुः । काठ १३, १० ।

*- - -अथ प्राणमय ऊर्ध्वः प्रतिष्ठितः। - - अथ असुमयस्तिर्यङ् प्रतिष्ठितः। - -- -अथ अन्नमयोऽर्वाङ् प्रतिष्ठितः। – जै.उ.ब्रा. १.९.२.१