priya

प्रिय

शुक्लयजुर्वेदे कथनमस्ति –

गणानां त्वा गणपतिꣳ हवामहे प्रियाणां त्वा प्रियपतिꣳ हवामहे निधीनां त्वा निधिपतिꣳ हवामहे वसो मम । आहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् ॥ - वासं. २३.१९

वैदिकवाङ्मये डा. फतहसिंहः उल्लेखं करोति यत् शब्दस्य यः बहुवचनमस्ति, तत् आसुरीं एवं मानुषीं स्तरं दर्शयति। यः एकवचनरूपमस्ति, तत् दैवीं। शुक्लयजुर्वेदस्य ते कानि प्रियाणि सन्ति। शब्द, स्पर्श, रूप, रस, गन्ध एते मानुषाय प्रियाणि तन्मात्राणि निर्मीयन्ते। ऋग्वेद १०.५५.२ मध्ये उल्लेखमस्ति –

महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम् ।

प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्च ॥ऋ. १०.५५.२

अत्र कथनमस्ति यत् कोपि गुह्यं नाम अस्ति येन भूतस्य एवं भव्यस्य जननं संभवमस्ति, यस्मात् कापि ज्योतिः उदयति या प्रियतमा अस्ति, यस्मिन् पञ्च प्रियाः समविशन्ति। सायणभाष्ये आकाशमहाभूते अस्य गुणस्य आरोपणं कृतमस्ति।

नारदपरिव्राजकोपनिषदादिषु प्रियाणां तादात्म्यं सुकृतेन एवं अप्रियाणां दुष्कृतेन सह कृतमस्ति । प्रियं – अप्रियं विसृज्य सनातनब्रह्मस्य प्राप्तिः अपेक्षिता अस्ति -

प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥ नारदपरिव्राजकोपनिषत् ३.५१

ऋग्वेदस्य प्रसिद्धा ऋक् अस्ति –

यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे।

प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम्॥ ६.०४८.०१

अस्मिन् संदर्भे उल्लेखमस्ति यत् यज्ञायज्ञा वो अग्नये अग्निहोत्रस्य प्रतीकः अस्ति, गिरागिरा च दक्षसे दर्शपूर्णमासस्य, प्रप्र वयममृतं जातवेदसं चातुर्मासस्य एवं प्रियं मित्रं न शंसिषम् अग्निष्टोमस्य। मानुषीस्तरे अयं आवश्यकं नास्ति यत् यः प्रियं भासति, तत् मित्रमपि भवेत्।

 

ऋग्वेदे उल्लेखमस्ति –

आ यातं मित्रावरुणा सुशस्त्युप प्रिया नमसा हूयमाना।

सं यावप्नःस्थो अपसेव जनाञ्छ्रुधीयतश्चिद्यतथो महित्वा॥ ६.०६७.०३

अस्याः ऋचः द्वितीयं पादमस्ति – उप प्रिया नमसा हूयमाना। शतपथब्राह्मणे कथनमस्ति –

तदभिमृशति यज्ञ नमश्च त उप च यज्ञस्य शिवे संतिष्ठस्व स्विष्टे मे संतिष्ठस्वेति स यदतिरेचयति तन्नमस्कारेण शमयत्यथ यदूनं करोत्युप[१] चेति तेन तदन्यूनं भवति यज्ञस्य शिवे संतिष्ठस्वेति यद्वै यज्ञस्यान्यूनातिरिक्तं तच्छिवं तेन तदुभयं शमयति स्विष्टे मे संतिष्ठस्वेति यद्वै यज्ञस्यान्यूनातिरिक्तं तत्स्विष्टं। - माश ११.२.३.९

 

संदर्भाः

 

त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः।

शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे॥ १.०४५.०६

एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः।

स्तुषे वामश्विना बृहत्॥ १.०४६.०१

प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः॥ १.०६७.०६

अक्षन्नमीमदन्त ह्यव प्रिया अधूषत।

अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी॥ १.०८२.०२

ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः।

प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम्॥ १.०८४.११

मा नो वधीरिन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः।

आण्डा मा नो मघवञ्छक्र निर्भेन्मा नः पात्रा भेत्सहजानुषाणि॥ १.१०४.०८

मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम्।

मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः॥ १.११४.०७

उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि।

अद्मसन्न ससतो बोधयन्ती शश्वत्तमागात्पुनरेयुषीणाम्॥ १.१२४.०४

इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते।

यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम्॥ १.१४०.११

यदश्वाय वास उपस्तृणन्त्यधीवासं या हिरण्यान्यस्मै।

संदानमर्वन्तं पड्बीशं प्रिया देवेष्वा यामयन्ति॥ १.१६२.१६

यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः।

वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम॥ २.०१२.१५

यज्ञैः सम्मिश्लाः पृषतीभिर्ऋष्टिभिर्यामञ्छुभ्रासो अञ्जिषु प्रिया उत।

आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः॥ २.०३६.०२

भगं धियं वाजयन्तः पुरंधिं नराशंसो ग्नास्पतिर्नो अव्याः।

आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम॥ २.०३८.१०

इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति।

या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति॥ २.०४१.१८

अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितं पदं वेः।

प्राञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः॥ ३.००७.०७

यज्ञो हि त इन्द्र वर्धनो भूदुत प्रियः सुतसोमो मियेधः।

यज्ञेन यज्ञमव यज्ञियः सन्यज्ञस्ते वज्रमहिहत्य आवत्॥ ३.०३२.१२

आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै।

समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम्॥ ३.०३२.१५

अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः।

अभि प्रियाणि मर्मृशत्पराणि कवीँरिच्छामि संदृशे सुमेधाः॥ ३.०३८.०१

मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि।

इन्द्र स्वधावो मत्स्वेह॥ ३.०४१.०८

विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः।

अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम्॥ ३.०५५.१०

प्र शर्ध आर्त प्रथमं विपन्याँ ऋतस्य योना वृषभस्य नीळे।

स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासोऽजनयन्त वृष्णे॥ ४.००१.१२

प्र ताँ अग्निर्बभसत्तिग्मजम्भस्तपिष्ठेन शोचिषा यः सुराधाः।

प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि॥ ४.००५.०४

स वेद देव आनमं देवाँ ऋतायते दमे।

दाति प्रियाणि चिद्वसु॥ ४.००८.०३

अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः।

अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम॥ ४.०१७.०९

न तं जिनन्ति बहवो न दभ्रा उर्वस्मा अदितिः शर्म यंसत्।

प्रियः सुकृत्प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी॥ ४.०२५.०५

युवामिद्ध्यवसे पूर्व्याय परि प्रभूती गविषः स्वापी।

वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू॥ ४.०४१.०७

प्रियं दुग्धं न काम्यमजामि जाम्योः सचा।

घर्मो न वाजजठरोऽदब्धः शश्वतो दभः॥ ५.०१९.०४

पुष्यात्क्षेमे अभि योगे भवात्युभे वृतौ संयती सं जयाति।

प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत्॥ ५.०३७.०५

असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय।

हरी रथे सुधुरा योगे अर्वागिन्द्र प्रिया कृणुहि हूयमानः॥ ५.०४३.०५

कदु प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम्।

आमेन्यस्य रजसो यदभ्र आँ अपो वृणाना वितनोति मायिनी॥ ५.०४८.०१

कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म।

सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः॥ ५.०८५.०८

आ जातं जातवेदसि प्रियं शिशीतातिथिम्।

स्योन आ गृहपतिम्॥ ६.०१६.४२

यत्र शूरासस्तन्वो वितन्वते प्रिया शर्म पितॄणाम्।

अध स्मा यच्छ तन्वे तने च छर्दिरचित्तं यावय द्वेषः॥ ६.०४६.१२

यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे।

प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम्॥ ६.०४८.०१

उदु त्यच्चक्षुर्महि मित्रयोराँ एति प्रियं वरुणयोरदब्धम्।

ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिता व्यद्यौत्॥ ६.०५१.०१

उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा।

सरस्वती स्तोम्या भूत्॥ ६.०६१.१०

इयं मद्वां प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिरच्छ।

यन्तं नो मित्रावरुणावधृष्टं छर्दिर्यद्वां वरूथ्यं सुदानू॥ ६.०६७.०२

आ यातं मित्रावरुणा सुशस्त्युप प्रिया नमसा हूयमाना।

सं यावप्नःस्थो अपसेव जनाञ्छ्रुधीयतश्चिद्यतथो महित्वा॥ ६.०६७.०३

वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना।

योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयं समने पारयन्ती॥ ६.०७५.०३

एना वो अग्निं नमसोर्जो नपातमा हुवे।

प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम्॥ ७.०१६.०१

त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः।

यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम्॥ ७.०१६.०७

मा ते अस्यां सहसावन्परिष्टावघाय भूम हरिवः परादै।

त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम॥ ७.०१९.०७

प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः।

नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन्॥ ७.०१९.०८

एवा तमाहुरुत शृण्व इन्द्र एको विभक्ता तरणिर्मघानाम्।

मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चत प्रियाणि॥ ७.०२६.०४

मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु।

तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता॥ ७.०३२.१५

प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिम्।

अग्निं रथानां यमम्॥ ८.१०३.१०

अव्यो वारे परि प्रियं हरिं हिन्वन्त्यद्रिभिः।

पवमानं मधुश्चुतम्॥ ९.०५०.०३

पवमान नि तोशसे रयिं सोम श्रवाय्यम्।

प्रियः समुद्रमा विश॥ ९.०६३.२३

पुनान इन्दवेषां पुरुहूत जनानाम्।

प्रियः समुद्रमा विश॥ ९.०६४.२७

उप प्रियं पनिप्नतं युवानमाहुतीवृधम्।

अगन्म बिभ्रतो नमः॥ ९.०६७.२९

श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति।

ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवाँ अप्येति यज्ञियः॥ ९.०७१.०६

नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर्गवां प्रदिव इन्दुर्ऋत्वियः।

पुरंधिवान्मनुषो यज्ञसाधनः शुचिर्धिया पवते सोम इन्द्र ते॥ ९.०७२.०४

अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते।

आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः॥ ९.०७५.०१

ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः।

दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः॥ ९.०७५.०२

अभि प्रियाणि पवते पुनानो देवो देवान्स्वेन रसेन पृञ्चन्।

इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये॥ ९.०९७.१२

आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने।

प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः॥ १०.०४५.१०

महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम्।

प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्च॥ १०.०५५.०२

प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत्।

शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः॥ १०.०८६.०५

ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि।

वसानो अत्कं सुरभिं दृशे कं स्वर्ण नाम जनत प्रियाणि॥ १०.१२३.०७

द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन्।

भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि॥ १०.१२३.०८

प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः।

प्रियं भोजेषु यज्वस्विदं म उदितं कृधि॥ १०.१५१.०२

प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥ नारदपरिव्राजकोपनिषत् ३.५१

प्रियाप्रिये न स्पृशतस्तथैव च शुभा शुभे ।
तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः ॥ आत्मोपनिषत् १५

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते  - छान्दोग्योपनिषत् ५.१२.२

तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
 प्रियः प्रियायार्हसि देव सोढुम् ॥भगवद्गीता ११- ४४

घृतेनाक्तौ पशूँस् त्रायेथा । रेवति यजमाने प्रियं धा ऽ आ विश । - वासं. ६.११